________________
Jain Education Inter
तत्सदृशे दीर्घसरलपीनत्वादिना बाहू यस्य स तथा लंघने गर्त्तादेरतिक्रमे लवने-मनाकू विक्रमवति गमने जवने| अतिशीघ्रगमने प्रमर्दने - कठिनस्यापि वस्तुनचूर्णने समर्थः, छेकः - कलापण्डितः दक्षः - कार्याणामविलम्बितकारी | प्रष्ठो - वाग्मी कुशलः - सम्यक्रियापरिज्ञानवान् मेधावी - सकृत् श्रुतदृष्टकर्मज्ञः 'निपुणशिल्पोपगतः' निपुणं यथा भवत्येवं शिल्पक्रियासु कौशलं उपगतः - प्राप्तः, एकं महान्तं शलाकहस्तकं - सरित्पर्णादिशलाकासमुदायं सरित्पर्णादि| शलाकामयीं सम्मार्जनीमित्यर्थः वाशब्दा विकल्पार्थाः दण्डसंपुंछनीं - दण्डयुक्तां सम्मार्जनीं वेणुशलाकिकीं वंशश| लानिर्वृत्तां सम्मार्जनीं गृहीत्वा राजाङ्गणं वा राजान्तःपुरं वा देवकुलं वा सभां वा, पुरप्रधानानां सुखनिवेशनहेतुमण्डपिकामित्यर्थः, प्रपां वा-पानीयशालां आरामं वा दम्पत्योर्नगरासन्नरतिस्थानं उद्यानं वा-क्रीडार्थागत जनानां | प्रयोजनाभावेनोर्ध्वावलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डं अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे | वा सम्यक्कवचराद्यपगमासम्भवात्, तत्र त्वरा - मानसौत्सुक्यं चापल्यं - कायैौत्सुक्यं सम्भ्रमश्च-गतिस्खलनमिति निरन्तरं न तु अपान्तरालमोचनेन सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन सम्प्रमार्जयेदिति, अथोक्तदृष्टान्तस्य दार्शन्तिकयोजनायाह - तथैवैता अपि योजनपरिमण्डलं-योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति-यत्तत्र योजनपरिमण्डले तृणं वा पत्रं वा काष्ठं वा कचवरं वा अशुचि - अपवित्रं अचोक्षं - मलिनं पूतिकं - दुरभिगन्धं तत्सर्वमाधूय २ – सञ्चाल्य २ एकान्ते - योजनमण्डलादन्यत्र एडयन्ति - अपनयन्ति, अपनीयार्थात् संवर्त्तकवातोपशमं विधाय च यत्रैव भगवांस्ती
For Private & Personal Use Only
jainelibrary.org