________________
एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः ३१९१६३९६९ सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहिअस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूत्तैकषष्टिभागाभ्यामधिकः तेषां चाढे पड़ मुहूर्ताः एकेन मुहूत्र्तकषष्टिभागेनाभ्यधिकास्ततः सवर्णनार्थ षडपि मुहर्ता एकषष्टया गुण्यन्ते तत एकः षष्टिभागस्तत्रा|धिकः प्रक्षिप्यते, ततो जातानि त्रीणि शतानि सप्तषष्टयधिकानि एकषष्टिभागानां ३६७, ततः प्रस्तुतमण्डले यत्परिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके ३१८२९७, इदं च योजनराशिं षष्टया गुणयित्वा सवर्णिता मुहूर्तगतिरिति यथा व्यवहियते तथा प्रागुक्तम् , एतदेभिस्त्रिभिः शतैः सप्तषष्टयाऽधिकैर्गुण्यते जाता एकादश कोट्योऽष्टषष्टिलक्षाश्चतुर्दश सहस्राणि नव शतानि नवनवत्यधिकानि ११६८१४९९९, एतस्य एकषष्टया गुणितया
षष्टया ३६६० भागो हियते लब्धान्येकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि ३१९१६, शेषमुद्धरति चतुर्विंश||तिशतानि एकोनचत्वारिंशदधिकानि २४३९ न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमेकषष्टया भागो
हियते लब्धा एकोनचत्वारिंशत् षष्टिभागाः ३९ एकस्य च पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः । अथ तृतीयं मण्डलं-'से पविसमाणे' इत्यादि, अथ प्रविशन्-जम्बूद्वीपाभिमुखं चरन् सूर्यः द्वितीयेऽहोरात्रे उत्तरायणसत्के इत्यर्थः बाह्यतृतीयं मण्डलमुपसङ्क्रम्य चारं चरति, तदा किमित्याह-'जया ण'मित्यादि, यदा भगवन् ! सूर्यः बाह्यतृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योजनसह
0000000000000000000000000
Jain Education interol
For Private
Personal Use Only
IAL
.jainelibrary.org