SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ |७वक्षस्कारे श्रीजम्बूद्वीपशान्तिचन्द्रीया तिः मुहूत्रंगतिः ॥४४५॥ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां २ मुहूर्त्तकषष्टिभागाभ्या हीनः स्यात्, प्रतिमुहूत्तैकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, ततः उभयमीलने षट्त्रिंशत् स्युः, ते चाष्टादश भागाः कलया न्यूना लभ्यन्ते न परिपूर्णाः परं व्यवहारतः पूर्व परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा चशी-1 त्यधिकशततममण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागास्थ्यन्ति, एतदपि व्यवहारत उक्त परमार्थतः पुनः किञ्चिदधिकमपि त्रुट्यदवसेयम्, ततोऽमी अष्टषष्टिरेकषष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाशीति| र्योजनानि नव षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ८५ ६/६९ इति जातं सर्वबाह्य| मण्डलानन्तरार्वाक्तनद्वितीयमण्डलगतदृष्टिपथप्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानां एकोनचत्वारिंशत्पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ३१९१६ ३७६इत्येवंरूपाच्छोध्यते ततो यथोक्तं सर्वबाह्यमण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेव वक्ष्यति, तत एवं पुरुषछायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु चतुरशीतिं किञ्चिन्यूनानि उपरितनेषु मण्डलेवधिकान्यधिकतराणि उक्तप्रकारेणाभिवर्द्धयन् २ तावदवसेयो यावत्सर्वबाह्यमण्डलमुपसङ्क्रम्य चारं चरति, तत्र तु पञ्चाशीति योजनानि साधिकानि हापयतीत्यर्थः, साधिकन्यशीतिचतुरशीतिपञ्चाशीतियोजनानां सम्भवेऽपि सूत्रे यच्चतुरशीतिग्रहणं तद् देहलीप्रदीपन्यायेनोभयपार्श्ववर्त्तिन्योख्यशीतिपञ्चाशीत्योहणार्थमिति । अथोक्ते एव मण्डलक्षेत्रे पश्चानु ॥४४५॥ For Private Personal use only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy