SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Jain Education Int नान् अभिवर्द्धयमानः चतुरशीतिं २ योजनानि शीतानि - किञ्चिन्यूनानि पुरिसच्छायमिति - पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात् प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि सप्तम्यर्थे द्वितीया, ततोऽयमर्थः - तस्या निवर्द्धयन् २ - हापयन् २, कोऽर्थः १ - पूर्व २ मण्डलसत्कपुरुषच्छायातो बाह्यबाह्यमण्डलपुरुषच्छाया किञ्चिन्यूनैश्चतुरशीत्या योजनेहींना इत्यर्थः, सर्वबाह्यमण्डलमुपसङ्गम्य चारं चरति, यच्चात्रोकं ८४ योजनानि किञ्चिन्यूनानि उत्तरोतरमण्डलसत्क पुरुषच्छायायां हीयन्ते इति तत्स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं त्र्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधाच्छिन्नस्य सत्का द्विचत्वारिंशद् भागाश्चेति दृष्टिपथप्राप्तताविपये हानौ ध्रुवं, ततः सर्वाभ्यन्तरान्मण्डलात् तृतीयं यन्मण्डलं तत आरभ्य यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातु| मिष्यते तत्तन्मण्डलसङ्ख्यया पट्त्रिंशद् गुण्यते, तद्यथा - सर्वाभ्यन्तरान्मण्डला तृतीये मण्डले एकेन चतुर्थे द्वाभ्यां | पञ्चमे त्रिभिर्यावत् सर्ववाह्यमण्डले व्यशीताधिकशतेन गुणयित्वा ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन हीना पूर्वमण्डलसत्कदृष्टिपथप्राप्तता तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता ज्ञातव्या, अथ त्र्यशीतियोजनादिकस्य ध्रुवराशेः कथमुपपत्तिः १, उच्यते, सर्वाभ्यन्तरमण्डले दृष्टिपथप्राप्ततापरिमाणे सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च पष्टिभागा योजनस्य ४७२६३ ६, एतच नवमुहूर्त्तगम्यं तत एकस्मिन् मुहूर्त्तकषष्टिभागे | किमागच्छतीति चिन्तायां नव मुहूर्त्ता एकषष्ट्यां गुण्यन्ते जातानि पञ्च शतान्येकोनपञ्चाशदधिकानि ५४९ तैर्भागे हृते For Private & Personal Use Only w.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy