________________
श्रीजम्बू, ७४
Jain Education Inte
द्वितीयमण्डले तत्पृच्छा- 'अन्यंतराण' मित्यादि, अन्वययोजना सुगमा, तात्पर्यार्थस्त्वयम् - सर्वाभ्यन्तरानन्तरं च - द्वितीयं | सूर्यमण्डलमायामविष्कम्भाभ्यां नवनवतिं योजनसहस्राणि षट् च योजनशतानि पञ्चचत्वारिंशदधिकानि पञ्चत्रिंशतं | चैकषष्टिभागान् योजनस्य ९९६४५ १५, तथाहि - एकतोऽपि सर्वाभ्यन्तरानन्तरं मण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारिंशत्सङ्ख्यानेकषष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितमपरतोऽपि ततः पञ्च योजनानि पञ्चत्रिं| शश्चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे वर्द्धन्ते, अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य | परिक्षेपस्त्रीणि शतसहस्राणि पञ्चदश सहस्राण्येकं च शतं सप्तोत्तरं योजनानां ३१५१०७, तथाहि - पूर्वमण्डलादस्य विष्कम्भे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य वर्द्धन्ते, पञ्चानां च योजनानां पञ्चत्रिंशत्सङ्ख्यैकभागाधिकानां परिरयः सप्तदश योजनानि अष्टत्रिंशच्चैकषष्टिभागाः समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते | परिपूर्णानि अष्टादश योजनानि तानि पूर्वमण्डलपरिक्षेपे यदाऽधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात् । अथ तृतीयमण्डले तत्पृच्छा-'अब्भंतरतच्चे ण' मित्यादि व्यक्तं, नवरमुत्तरसूत्रे नवनवतिं योजनसहस्राणि षट् च | एकपञ्चाशानि योजनशतानि नव चैकषष्टिभागान् योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामविष्कम्भेण, अत्रोपपत्तिः| पूर्वमण्डलायामविष्कम्भे ९९६४५ योजन ३५ इत्येवंरूपे एतन्मण्डलवृद्धौ ५ योजन ६५ प्रक्षिप्तायां यथोक्तं मानं भवति, परिक्षेपेण च त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतं, तत्रोपपत्तिः
For Private & Personal Use Only
Inelibrary.org