SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ eseeeeeeeeee ल्येन-पिण्डेन सर्वात्मना कनकमयी प्रस्तावादर्जुनसुवर्णमयी अच्छा वेदिकावनखण्डेन सर्वतः समन्तात् सम्परि-81 क्षिप्ता, वक्रता च चूलिकासन्ना सरलता तु स्वस्वदिक्क्षेत्राभिमुखा, वर्णकश्च वेदिकावनखण्डयोर्वक्तव्यः, चतुर्योजनोच्छिता च शिला दुरारोहा आरोहकाणामित्याह-तीसे ण'मित्यादि, तस्यां शिलायां चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च वर्णको वाच्यो यावत्तोरणानि । अथास्या भूमिसौभाग्यमावेदयन्नाह-'तीसे ण'मित्यादि. तस्याः-पाण्डुशिलायाः उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद्देवा आसते शेरते इत्यादि, अथात्राभिषेकासनवर्णनायाह-'तस्स ण'मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे उत्तरतो दक्षिणतश्च अचान्तरे द्वे अभिषेकसिंहासने-जिनजन्माभिषेकाय पीठे प्रज्ञा पंचधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनु:तानि बाहल्येन उच्चत्वेनेत्यर्थः, अत्र च सिंहासनवर्णको भणितव्यः, स च विजयदुष्यवर्ज:-उपरिभागे विजयनामकचन्द्रोदयवर्णनारहित इत्यर्थः, शिलासिंहासनानामनाच्छादितदेशे स्थितत्वात् , अत्र च सिंहासनानामायामविष्कम्भ-31 योस्तुल्यत्वेन समचतुरस्रतोक्का, नन्वत्रैकेनैव सिंहासनेनाभिषेके सिद्धे किमर्थं सिंहासनद्वयमित्याह-'तत्थमित्यादि, तत्र-तयोः सिंहासनयोर्मध्ये 'से' इति भाषालङ्कारे यदौत्तराहं सिंहासनं तत्र बहुभिर्भवनपतिव्यन्तरज्योतिकवैमानिकैर्देवैर्देवीभिश्च कच्छादिविजयाष्टकजातास्तीर्थकराः अभिषिच्यन्ते-जन्मोत्सवार्थ स्नप्यन्ते, यत्त दाक्षिणात्वं सिंहासनं तत्र वच्छादिका इति, अत्रायमर्थः-एषा हि शिला पूर्वदिग्मुखा एतद्दिगभिमुखं च क्षेत्र पूर्वमहाविदेहाख्य For Private Person Use Only Brainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy