SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Jain Education रिवारायाः पूर्वेण पञ्चाशयोजनानि प्रथमवनखण्डमवगाह्यात्रान्तरे भवनं प्रज्ञप्तं, क्रोशमायामेन, उच्चत्वादिकथनायाविदेशमाह - स एव मूलजम्बूपूर्वशाखागतभवनसम्बन्धी वर्णको ज्ञेयः, शयनीयं चानादृतयोग्यं, एवं शेषास्वपि दक्षि | णादिदिक्षु स्वस्वदिशि पञ्चाशद्योजनान्यवगाह्याद्ये वने भवनानि वाच्यानि, अथात्र वने वापीस्वरूपमाह - 'जंबूए णं उत्तरे' त्यादि, जम्ब्वाः उत्तरपौरस्त्ये दिग्भागे प्रथमं वनखण्डं पञ्चाशद्योजनान्यवगाह्यात्रान्तरे चतस्रः पुष्करिण्यः प्रज्ञप्ताः, एताश्च न सूचीश्रेण्या व्यवस्थिताः किन्तु स्वविदिग्गतप्रासादं परिक्षिप्य स्थिताः, तेन प्रादक्षिण्येन तन्नामा| न्येवं - पद्मा पूर्वस्यां पद्मप्रभा दक्षिणस्यां कुमुदा पश्चिमायां कुमुदप्रभा उत्तरस्यां एवं दक्षिणपूर्वादिविदिग्गतवापीष्वपि वाच्यं, ताश्च क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पश्चधनुःशतान्युद्वेधेनेति । अथात्र वापीमध्यगतप्रासादस्वरूपमाह - 'तासि ण'मित्यादि, तासां वापीनां चतसृणां मध्ये प्रासादावतंसकाः प्रज्ञप्ताः, बहुवचनं च उक्तवक्ष्यमाणानां वापीनां प्रासादापेक्षया द्रष्टव्यं तेन प्रतिवापीचतुष्कमेकैकप्रासादभावेन चत्वारः प्रासादाः, एवं निर्देशो लाघवार्थ, क्रोशमा| यामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुच्चत्वेन, वर्णको मूलजम्बूदक्षिणशाखागतप्रासादवद् ज्ञेयः, एषु चानादृतदेवस्य क्रीडार्थं सिंहासनानि सपरिवाराणि वाच्यानि, जीवाभिगमे त्वपरिवाराणि, एवं शेषासु दक्षिणपूर्वादिषु विदिक्षु | वाप्यः प्रासादाश्च वक्तव्याः, एतासां नामदर्शनाय गाथाद्वयं, पद्मादयः प्रागुक्ताः पुनः पद्यबन्धनद्धत्वेन संगृहीता इति न पुनरुक्तिः, एताश्च सर्वा अपि सत्रिसोपान चतुर्द्वाराः पद्मवरवेदिकावनखण्डयुक्ताश्च बोध्याः, अथ दक्षिणपू For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy