________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
||३०५ ॥
Jain Education Inter
|
शग्रहणेन सर्वोऽपि वाप्यादिजलाशयालापको ग्राह्यः, अत्र कालनिर्णयार्थमाह - 'एवं जो सुसमाए' इत्यादि, एवंउक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे यः सुषमायाः - अवसर्पिणीद्वितीयारकस्यानुभावः स एवापरिशेषः - सम्पूर्णो वक्तव्यः, सुषमाप्रतिभागनामकावस्थितकालस्य तत्र सम्भवात् ॥ अथास्य क्षेत्रस्य विभाजक गिरिमाह-- 'कहि ण' मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे हरितो- हरिसलिलाया महानद्याः पश्चिमायां हरिकान्ताया महानद्याः पूर्वस्यां हरिवर्षस्य २ बहुमध्यपातिनामा वृत्तवैताढ्यपर्वतः प्रज्ञप्तः, अत्र निगमयंलाघवार्थमतिदेशसूत्रमाह-एवं विकटापातिवृत्तवैतान्यवर्णने क्रियमाणे य एव शब्दापातिनो विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानानां वर्णव्यासो-वर्णकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतत्स्वामिराजधान्यादिसंग्रहः, विकटापातिप्रभाणि विकटापातिवर्णाभानि च तेन विकटापातीति नाम, अरुणश्चात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि तथा नाम प्रसिद्धम्, आह-विसदृशनामकदेवाद्विकटापातीति नाम कथमुपपद्यते ?, उच्यते, अरुणो विकटापातिपतिरिति तत्कल्पपुस्तकादिषु आख्यायते, सामानिकादीनामप्यनेनैव नाम्ना प्रसिद्ध इति सामर्थ्याद्विकटापातीति, सुस्थितलवणोदाधिपतेर्गौतमाधिपतित्वाद् गौतमद्वीप इव, बृहत्क्षेत्र विचारादिषु हैरण्यवते विकटापाती हरिवर्षे गन्धापातीत्युक्तं, तत्त्वं तु केवलिंगम्यं, एवं यावद्दक्षिणस्यां दिशि मेरो राजधानी नेतव्या, अथ हरिवर्षनामार्थं पिपृच्छिपुराह - 'से केणट्टेणं' इत्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे हरिवर्षे | २ केचन मनुजा अरुणा - रक्तवर्णाः, अरुणं च चीनपिष्टादिकं आसन्नवस्तूनि अरुणप्रकाशं न कुरुते अभास्वरत्वाद्
For Private & Personal Use Only
४वक्षस्कारे
हरिवर्ष
सू. ८२
॥३०५||
ainelibrary.org