SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कटितटं घना-अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निबिडा कटितटे-मध्यभागे छाया यस्य(स)घनकटितटच्छायः, मध्यभागे निबिडतरच्छाय इत्यर्थः, वाचनान्तरे 'घणकडिअकडच्छाए'त्ति पाठे तु कटः सञ्जातोऽस्येति कटितः कटान्तरेणोपर्यावृत इत्यर्थः कटितश्चासौ कटश्च कटितकटः, घना निबिडा कटितकटस्येवाधोभूमौ छाया यस्य स धनकटितकटच्छायः, [अत एव रम्यो-रमणीयः, तथा महान्-जलभारावनतः प्रावृट्कालभावी यो मेघनिकुरम्बो-मेघसमूहस्तं भूतो-गुणैः । प्राप्तो महामेघवृन्दोपम इत्यर्थः, 'ते णं पायव'त्ति यत्सम्बन्धी वनखण्डस्ते पादपाः 'मूलमन्त'इत्यादीनि दश पदानि, | तत्र मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः, यानि कन्दस्याधः तानि मूलानि तेषामुपरिवर्तिनः कन्दाः स्कन्धः-स्थुडं यतो मूलशाखाः प्रभवन्ति त्वक्-छल्ली शाला-शाखा प्रवाल:-पल्लवाङ्कुरः, पत्रपुष्पफलबीजानि प्रसिद्धानि, सर्वत्रातिशायने कचिद् भूम्नि वा मतुपू प्रत्ययः, 'अणुपुवि'त्ति आनुपूा-मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाताः रुचिराः-स्निग्धतया दीप्यमानच्छविमन्तः तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्त भवति ?-एवं नाम सर्वासु दिक्षु. विदिक्षु च शाखादिभिः प्रसृता यथा वर्तुलाकृतयो जाता इति, ततः पदत्रयस्य | कर्मधारयः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति एगक्खंधी इति सूत्रपाठः, अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तथा तिर्यग्बाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैः 8 नरव्यामैः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः-अमेयो घनो-निविडो विपुलो-विस्तीर्णः स्कन्धो येषां ते तथा, अच्छिद्राणि Jan Education Internal For Private Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy