SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ स्मिन् , विचित्रमणिरत्नमयकुट्टिमतलं-बद्धभूमिका यत्र स तथा तस्मिन्, अत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रत्नानां च भक्तयो-यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे-स्नानयोग्ये आसने सुखेन निषण्णः-उपविष्टस्सन् शुभोदकैः-तीर्थोदकैः सुखोदकैर्वा नात्युष्णैर्नातिशीतैरित्यर्थः गन्धोदकैः-चन्दनादिरसमिश्रः पुष्पोदकैः-कुसुमवासितैः शुद्धोदकैश्च-स्वाभाविकैस्तीर्थान्यजलाशयै(यजलै)रित्यर्थः, 'मजिए'त्ति उत्तरसूत्रस्थपदेन सह सम्बन्धः, एतेन कान्तिजननश्रमज(ह)ननादिगुणार्थ मज्जनमुक्तं, अथारिष्ठविघातार्थमाह-पुनः कल्याणकारिप्रवरमज्जनस्य-विरुद्धग्रहपीडानिवृत्त्यर्थकविहितौषध्यादिस्नानस्य विधिना 'टुमस्जौत् शुद्धौ' इत्यस्य शुद्ध्यर्थकत्वेन स्नानार्थकत्वान्मज्जितः-स्नपितोऽन्तःपुरवृद्धाभिरिति गम्यं, कैर्मजित इत्याह-तत्र-स्नानावसरे कौतुकानां-रक्षादीनां शतैर्यद्वा कौतूहलिकजनैः स्वसेवासम्यक्प्रयोगार्थ दर्यमानैः कौतुकशतैः-भाण्डचेष्टादिकुतूहलैर्बहुविधैः-अनेकप्रकारैः, अत्र करणे तृतीयेति, अथ स्नानोत्तरविधिमाह-कलाणग'इत्यादि, कल्याणकप्रवरमजनावसाने स्नानानन्तरमित्यर्थः पक्ष्मलया-पक्ष्मवत्या अत एव सुकुमालया गन्धप्रधानया कषायेण-पीतरक्तवर्णाश्रयरञ्जनीयवस्तुना रक्ता काषायिकी तया कपायरक्तया शाटिकयेत्यर्थः रूक्षितं-निर्लेपतामापादितं अङ्गं यस्य स तथा, सरससुरभिगोशीर्षचन्दनानुलितगात्रः, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्ययमित्यर्थः सुमहाघ-बहुमूल्यं यदृष्यरत्नं-प्रधानवस्त्रं तत्सुसंवृतं-सुष्ठु | परिहितं येन स तथा, अनेनादौ वस्त्रालङ्कार उक्तः, अत्र च वस्त्रसूत्रं पूर्व योजनीयं चन्दनसूत्रं पश्चात् , क्रमप्राधा Keeeeeeeeeeeeeeeer Jain Education in 1 1 For Private Personal Use Only T rainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy