________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ १७८ ॥
Jain Education
ण्डधर्मोऽग्निधर्मश्चेति, अथ शेषद्विभागवक्तव्यतामाह - 'तीसे ण' मित्यादि, तस्याः समाया मध्यमपश्चिमयोस्त्रिभागयोर्या, प्रथममध्यमयोरित्यत्र यथासम्भवमर्थयोजनाया औचित्येन मध्यमप्रथमयोरित्यवसेयं, अन्यथा शुद्धप्रतिलोम्याभावादर्थानुपपत्तिः स्यादिति, अवसर्पिण्यां वक्तव्यता सा भणितव्या, गतश्चतुर्थारक इति, अथ पञ्चमषष्ठावतिदेशेनाह'सुसमा' इत्यादि, सुषमा - पञ्चमसमालक्षणः कालस्तथैव - अवसर्पिणी द्वितीयारकवदिति, सुषमसुषमा - षष्ठारकः सोऽपि तथैव - अवसर्पिणीप्रथमारकसदृश इत्यर्थः कियत्पर्यन्तमत्र ज्ञेयमित्याह - यावत्षड्विधा मनुष्या अनुसक्ष्यन्ति - संतत्या अनुवर्त्तिष्यन्ति यावच्छनैश्चारिणः यावत्पदात् पद्मगन्धादयः पूर्वोक्ता एव ग्राह्याः । गतौ पञ्चमषष्ठौ तद्गमने चोत्सर्पिणी गता, तस्यां च गतायामवसर्पिण्युत्सर्पिणीरूपं कालचक्रमपि गतम् ।
इति सातिशयधर्मदेशनारस समुल्लासविस्मयमानऐदंयुगीन नराधिपतिचक्रवर्त्तिसमानश्री अकब्बरसुरत्राणप्रदत्तषाण्मासिक सर्वजन्तुजाता भयदानशत्रुञ्जयादिकर मोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुप्रधानोपमान साम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वर पदपद्मोपासनाप्रवणमहोपाध्याय श्री सकलचन्द्रगणिशिष्योपाध्यायश्री शान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानायां भरतक्षेत्र खरूपवर्णनप्रस्तावनागतावसर्पिण्युत्सर्पिणीद्वयरूपकालचक्रवर्णनो नाम द्वितीयो वक्षस्कारः ॥
For Private & Personal Use Only
,,,১
२वक्षस्कारे मांसवर्जनव्यवस्था सू. ३९ शेषोत्सर्पिणीवर्णनं सू. ४०
॥ १७८ ॥
www.jainelibrary.org