SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ |शब्दापयित्वा एवमवादीत्-भो अग्निकुमारा! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चाग्नि कायं विकुर्वत विकुर्वित्वा एतामाज्ञप्तिकां-आज्ञा प्रत्यर्पयत, शेष व्यक्तं, 'तए णं अग्गिकुमारा देवा' इत्यादि, व्याख्याशतप्रायमेव, 'तए णं से सके' इत्यादि, एतत्सूत्रद्वयमपि व्यक्तं, उज्ज्वालयत-दीपयत तीर्थकरशरीरकं यावदनगारशरी-18 रकाणि च ध्मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत, अग्निसंस्कृतानि कुरुतेति, 'तए ण' मित्यादि, ततः स शक्रो भवनपत्यादिदेवानेवमवादीत्-भो देवानुप्रियास्तीर्थकरचितिकायां यावदनगारचितिकायां च अगुरुं तुरुक्कं-सिल्हकं घृतं मधु च एतानि द्रव्याणि कुम्भाग्रशः-अनेककुम्भपरिमाणानि भारायशः-अनेकविंशतितुलापरिमाणानि अथवा पुरुषोत्क्षेपणीयो भारः सोऽयं-परिमाणं येषां ते भाराग्राः ते बहुशो भारायशः संहरतेति प्राग्वत् , अथ मांसादिषु |मापितेषु अस्थिष्ववशिष्टेषु शकः किं चक्रे इत्याह-'तए ण'मित्यादि, स्पष्ट, नवरं क्षीरोदकेन-क्षीरसमुद्रानीतजलेन | निर्वापयत, विध्यापयतेत्यर्थः, अथास्थिवक्तव्यतामाह--'तए णमित्यादि, ततश्चितिकानिर्वापणादनु भगवतस्तीर्थकरस्योपरितनं दक्षिणं सक्थि दाढामित्यर्थः शक्रो गृह्णाति ऊर्ध्वलोकवासित्वात् दक्षिणलोकार्दाधिपत्वाच्च, ईशा | १अयं भावः-जिनदंष्ट्रादिकं जिन इवाराध्यं, जिनसंबंधिवस्तुलात् , जिनप्रतिमावत् जिनस्थापिततीर्थवद्वा, तथा च येषां जिनभक्तिस्तेषामेव तत्संबंधिदंष्ट्रादौ भक्तिः, अन्यथा तथा भक्तरसंभवात् , न ह्यमित्रस्याकृतिं दृष्ट्वा नामादि च श्रुखा मोदमानस्तद्भक्तिं वा कुर्वाणः कोऽपि केनापि रष्टः श्रुतो बा,तेन दंष्ट्रादिभक्तिजिनभक्तिरेव, ननु जिनप्रतिमायास्तावजिनाकृतिमत्त्वेन जिनस्मृतिहेतुखातू तीर्थस्य च तीर्थकरस्थापितलात् सर्वगुणानामाश्रयलात् तीर्थकृतोऽपि नमस्करणी Jan Education For Private Persone Use Only Panerainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy