________________
॥ चूर्णयोग ३८ हस्तलाघव ३९ वचनपाटव ४० भोज्यविधि ४१ वाणिज्यविधि ४१ मुखमण्डन ४२ शालिखण्डन
४४ कथाकथन ४५ पुष्पग्रन्थन ४६ वक्रोक्ति ४७ काव्यशक्ति ४८ स्फारविधिवेष ४९ सर्वभाषाविशेष ५०-18 ॥ अभिधानज्ञान ५१ भूषणपरिधान ५२ भृत्योपचार ५३ गृहाचार ५४ व्याकरण ५५ परनिराकरण ५६ रन्धन-13॥
५७ केशबन्धन ५८ वीणानाद ५९ वितण्डावाद ६० अङ्कविचार ६१ लोकव्यवहार ६२ अन्त्याक्षरिका ६३-19 प्रश्नप्रहेलिका ६४ इति, अत्रोपलक्षणादुक्तातिरिक्ताः स्त्रीपुरुषकला ग्रन्थान्तरे लोके च प्रसिद्धा ज्ञेयाः, अत्र च यत्पुरुषकलासु स्त्रीकलानां स्त्रीकलासु च पुरुषकलानां साङ्कर्य तदुभयोपयोगित्वात्, ननु तर्हि 'चोसहि महिलागुणे इति ग्रन्थविरोधः, उच्यते, न ह्ययं ग्रन्थः स्त्रीमात्रगुणख्यापनपरः, किन्तु स्त्रीस्वरूपप्रतिपादकः, तेन क्वचित्पुरुषगुणत्वेऽपि न विरोधः, कलाद्वयस्योकसङ्ख्याकत्वं तु प्रायो बहूपयोगित्वात् , इत्यलं विस्तरेण । शिल्पशतं चेदम्-कुम्भकृ-| लोहकृच्चित्रकृत्तन्तुवायनापितलक्षणानि पञ्च मूलशिल्पानि तानि च प्रत्येकं विंशतिभेदानीति, तथा चार्षम्-"पंचेव य | सिप्पाई घड लोह चित्तणंतकासवए । इकिकस्स य इत्तो वीसं २ भवे भेआ ॥१॥ इति । नन्वतेषां पञ्चमूलशिल्पानां उत्पत्ती किं निमित्तमिति !, उच्यते, युग्मिनामामौषध्याहारे मन्दाग्नितयाऽपच्यमाने हुतभुजि प्रक्षिप्य-18 माने तु समकालमेव दह्यमाने युगलिनरैर्विज्ञान हस्तिस्कन्धारूढेन भगवता प्रथमं घटशिल्पमुपदर्शितं, क्षत्रियाः शस्त्र-18 पाणय एव दुष्टेभ्यः प्रजां रक्षेयुरिति लोहशिल्पं, चित्राङ्गेषु कल्पद्रुमेषु हीयमानेषु चित्रकृशिल्पं, वस्त्रकल्पद्मषु ।
aeemenaceaee000000000000000
seotseseseoeoeoeoeoeoeoeoeceseoen
JainEducation Inabal
For Private Personal Use Only
IOnw.jainelibrary.org