________________
४ नगरमानं द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानं, उपलक्षणाच्च कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानिवर्णादिव्यवस्थापरिज्ञानं ४५ चारो-ज्योतिश्चारस्तद्विज्ञानं ४६ प्रतिचारः-प्रतिकूलश्चारो ग्रहाणां वक्रगमनादिस्तत्फरिज्ञानं अथवा प्रतिचरणं प्रतिचारो-रोगिणः प्रतीकारकरणं तद्ज्ञानं ४७ व्यूह-युयुत्सूनां सैन्यरचनां यथा चक्रब्यूहे चक्राकृतौ तुम्बारकप्रध्यादिषु राजन्यकस्थापनेति ४८, प्रतिव्यूह-तत्प्रतिद्वन्द्विनां तद्भङ्गोपायप्रवृत्तानां व्यूह ४९ सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानत्वेन त्रीन् न्यूहविशेषानाह-चक्रव्यूह-चक्राकृतिसैन्यरचनामित्यर्थः ५०, गरुडव्यूह-गरुडाकृतिसैन्यरचनामित्यर्थः ५१ एवं शकटव्यूह ५२ युद्धं कुर्कुटानामिव मुण्डामुण्डि शृङ्गिणामिव शृङ्गाङ्गि युयुत्सया योधयोर्वल्गनं ५३ नियुद्धं मल्लयुद्धं ५४, युद्धातियुद्धं-खगादिप्रक्षेपपूर्वकं महायुद्धं यत्र प्रतिद्वन्द्विहतानां पुरुषाणां पातः स्यात् ५५ दृष्टियुद्ध-योधप्रतियोधयोश्चक्षुषोर्निनिमेषावस्थानं ५६ मुष्टियुद्धं-योधयोः परस्परं मुध्या हननं ५७ बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाहोरेव निनंसया वल्गनं ५८ लतायुद्धं योधयोः यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं वेवेष्टि तथा यत्र योधः प्रतियोधश(री)रं गाढं निपीड्य भूमौ पतति | तल्लतायुद्धं ५९ 'इसत्थंति प्राकृतशैल्या इषुशास्त्रं नागबाणादिदिव्यास्त्रादिसूचकं शास्त्रं ६० 'छरुष्पवायंति सरुः खड्गमुष्टिस्तदवयवयोगात् स्सरुशब्देनात्र खग उच्यते, अवयवे समुदायोपचारः तस्य प्रवादो यत्र शास्त्रे तत्त्सरप्रवादं, खगशिक्षाशास्त्रमित्यर्थः, प्रश्नव्याकरणे तु त्सरुप्रगतमिति पाठः ६१, धनुर्वेद-धनुःशास्त्रं ६२, हिरण्यपा
SPOSESH
For Private Personal Use Only
O
w
.jainelibrary.org