________________
RAI 'ते ण' मित्यादि, ते भदन्त ! मनुजास्तमनन्तरोदितस्वरूपमाहारमाहार्य व वसतौ-कस्मिन्नुपाश्रये उपयन्ति-उपग
च्छन्ति ?, भगवानाह-गौतम ! वृक्षरूपाणि गृहाणि आलया-आश्रया येषां ते तथा एवंविधास्ते मनुजाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत् , अथैते गेहाकारा वृक्षाः किंस्वरूपा इति पृच्छति-तेसि णं भंते ! रुक्खाण'मित्यादि प्रश्नसूत्रपदयोजना सुलभा, आकारभावप्रत्यवतारः प्राग्वत् , भगवानाह-गौतम! ते वृक्षाः कूट-शिखरं तदाकारसंस्थिताः, प्रेक्षा इति पदैकदेशे पदसमुदायोपचारात् प्रेक्षागृहं-नाट्यगृहं, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति संस्थित
शब्दः सर्वत्र योज्यः, तेन प्रेक्षागृहसंस्थिता इति व्याख्येयं प्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः, एवं छत्रध्वजतोरण-18 || स्तूपगोपुरवेदिकाचोप्फालअट्टालकप्रासादहर्म्यगवाक्षवालाग्रपोतिकावलभीगृहसंस्थिताः, तत्र छत्राद्याः प्रतीताः, गो
पुरं-पुरद्वारं वेदिका-उपवेशनयोग्या भूमिः चोप्फालं नाम मत्तवारणं अट्टालक:-प्राग्वत् प्रासादो-देवतानां राज्ञों वा || गृहं उच्छ्रयबहुलो वा प्रासादः ते चोभयेऽपि पर्यन्तशिखराः हम्य-शिखररहितं धनवतां भवनं गवाक्षः-स्पष्टः
वालाग्रपोतिका नाम जलस्योपरि प्रासादः बलभी-छदिराधारस्तत्प्रधानं गृहं, अत्रायमाशयः केचिद्वृक्षाः कूटसंस्थितास्तदन्ये प्रेक्षागृहसंस्थितास्तदपरे छत्रसंस्थिता, एवं सर्वत्र भाव्यं, अन्ये तु अत्र-सुषमसुषमाया भरतवर्षे बहवो वरभवनं-18 सामान्यतो विशिष्टगृहं तस्येव यद्विशिष्टं संस्थानं तेन संस्थिताः शभा शीतला छाया येषां ते तथा एवंविधा दुमगणाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत्, प्राग्गेहाकारकल्पमस्वरूपवर्णके उक्तेऽपि एते परमपुण्यप्रकृतिका युग्मिन एषु सौन्द
श्रीजन्यू. २१
For Private Personel Use Only