SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Jain Education In सतापं तपनीयं - सुवर्णविशेषस्तद्वद्रततलं -लोहितरूपं तालु च - काकुदं जिह्वा च - रसना येषा ते तथा, गरुडस्येव - पक्षिराजस्येवायता - दीर्घा ऋज्वी सरला तुङ्गा-उन्नता न तु मुद्गलजातीयस्येव चिपिटा नासा-नासिका येषां ते तथा, अवदालितरविकरैर्विकासितं यत्पुण्डरीकं श्वेतं पद्मं तद्वन्नयने येषां ते तथा, 'कोसाइअ'त्ति 'विकासे: को आसविसट्टा' (श्रीसि० ९३) वित्यनेन कोआसिते - विकसिते धवले च क्वचिदेशे पत्रले - पक्ष्मवती अक्षिणी-नेत्रे येषां ते तथा, आनामितं - ईषनामितमारोपितमिति भावः यश्चापं - धनुस्तद्वदुचिरे - संस्थानविशेषभावतो रमणीये कृष्णा राजीव संस्थिते सङ्गते - यथोप्रमाणोपपन्ने आयते - दीर्घे सुजाते- सुनिष्पन्ने तनू-तनुके श्लक्ष्णपरिमितवालपंक्त्यात्मकत्वात् कृष्णे - कालिमोपेते स्निग्धच्छाये भ्रुवौ येषां ते तथा, आलीनी - मस्तकभित्तौ किञ्चिलग्नौ न तु टप्परौ प्रमाणयुक्तौ - स्वप्रमाणोपेती श्रवणी - कर्णौ येषां ते तथा अत एव सुश्रवणा इति स्पष्टं, अथवा सुष्ठु श्रवणं - शब्दोपलम्भो येषां ते तथा, पीनौ-पुष्टौ यतो मांस| लौ - उपचितौ कपोललक्षणी देशभागौ - मुखावयवो येषां ते तथा, निर्व्रणं-विस्फोटकादिशतरहितं समं - अविषमं लष्टं| मनोज्ञं मृष्टं-मसृणं चन्द्रार्द्धसमं - अष्टमीचन्द्रसदृशं ललाटं येषां ते तथा, सूत्रे निलाडेति प्राकृतलक्षणवशात्, प्रतिपूर्णः - पौर्णमासीय उडुपतिः - चन्द्रः स इव सोमं - सश्रीकं वदनं येषां ते तथा, पदव्यत्यये प्राक्तन एव हेतुः, घनवद्| अयोधनवन्निचितं - निविडं सुबद्धं-सुष्ठु स्नायुनद्धं लक्षणोन्नतं - प्रशस्तलक्षणं कूटस्य - गिरिशिखिरस्याकारेण निर्भ-सदृशं | पिण्डिकेव - पाषाणपिण्डिकेव वर्त्तलत्वेन पिण्डिकायमानमग्रशिरः- उष्णीपलक्षणं येषां ते तथा, छत्राकारः - छत्रसदृश For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy