SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ | दत्त इत्यर्थः, विशेषणव्यस्तता चार्षत्वात् , ततः पूर्वपदेन कर्मधारयः, तद्वदीघौं बाहू येषा ते तथा, न चात्रानन्तरीशकविशेषणेन पौनरुक्त्यमाशङ्कनीयं, अत्रायामतादर्शनाय प्रस्तुतविशेषणस्य विशिष्य दर्शनात् , रकतली-अरुणावधो-18 भागौ उपचितौ-उन्नती औपयिकी वा-उचितौ अवपतितौ वा-क्रमेण हीयमानोपचयौ मृदुको मांसलौ सुजाताविति पदत्रयं प्राग्वत् , प्रशस्तलक्षणौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणी-हस्तौ वेषां ते तथा, पीवरकोमलवरंगुलीआ इति व्यक्तं, आताम्रा-ईषद्रतास्तलीनाः-प्रतलाः शुचयः-पवित्रा रुचिरा-मनोज्ञाः स्निग्धा-अरूक्षा नखा येषां ते | तथा, नखशब्दे द्विर्भावस्तु प्राग्वत्, चन्द्र इव चन्द्राकारा पाणिरेखा येषां ते तथा, एवमन्यान्यपि त्रीणि पदानि दिसासोवत्थिति दिक्सौवस्तिको-दिमोक्षकः दिक्प्रधानः स्वस्तिको दक्षिणावर्तः स्वस्तिक इस्यन्ये स पाणी रेखा येषां ते तथा, एतदेवानन्तरोक्तविशेषणपश्चकं तत्पशस्तताप्रकर्षप्रतिपादनाय संग्रहवचनेनाह-चंदसूरेति गतार्थ, ननु इयन्त्येव लक्षणानि तेषां शरीरस्थानीत्याह-अनेकैः-प्रभूतैर्वरैः-प्रधानैर्लक्षणैरुत्तमाः-प्रशंसास्पदीभूताः शुचय:पवित्राः रचिताः स्वकर्मणा निष्पादिताः पाणिरेखा येषां ते तथा, वरमहिषः-प्रधानसैरिमः वराहो-वनसूकरः सिंहःकेसरी शार्दूलो-व्याघ्रः ऋषभो-गौः नागबरः-प्रधानगजः एषामिव प्रतिपूर्णः स्वप्रमाणेनाहीनो विपुलो-विस्तीर्णः स्कन्धः-अंसदेशो येषां ते तथा, चतुरङ्गलं-स्वाङ्गापेक्षया चतुरङ्गुलप्रमितं सुष्टु-शोभनं प्रमाणं यस्याः सा तथा, कम्बुवरसदृशी-उन्नततया वलित्रययोगेन च प्रधानशङ्कसन्निभा ग्रीवा येषां ते तथा, विवेकविलासे तु प्रतिमाथा एकादशा Jan Education intel For Private Persone Use Only Jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy