SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte जम्बूद्वीपे भदन्त ! द्वीपे भरतक्षेत्रेऽस्यामवसर्पिण्या सम्प्रति या वर्त्तमानेति शेषः, सुषमसुषमानाच्या समाया कालबिभागलक्षणायां अरके इत्यर्थः, किंलक्षणायामित्याह - उत्तमकाष्ठां प्रकृष्टावस्थां प्राप्तायां, क्वचिदुत्तमट्ठपत्ताए इति पाठस्तत्रोत्तमा तत्कालापेक्षयोत्कृष्टानर्थान्-वर्णादीन् प्राप्ता उत्तमार्थप्राप्ता तस्यां भरतस्य वर्षस्य कीदृश आकार भावप्रत्यवतारः 'होत्य'त्ति अभवत् ?, सर्वमन्यत् प्राग्व्याख्यातार्थं, नवरमत्र मनुष्योपभोगाधिकारे शयनमुभयथापि सङ्गच्छते निद्रासहितरहितत्व भेदात् अथ सविशेषमनुजिघृक्षुणा गुरुणाऽपृष्टमपि शिष्यायोपदेष्टव्यमिति प्रश्नपद्धतिरहितं | प्रथमारकानुभावजनितभरतभूमिसौभाग्यसूचकं सूत्रचतुर्द्दश कमाह - 'तीसे ण' मित्यादि, तस्यां समायां भरतवर्षे बहव उद्दालाः कोदालाः मोद्दालाः कृतमालाः नृत्तमालाः दन्तमालाः नागमालाः शृङ्गमालाः शङ्खमालाः श्वेतमाला नाम डुमगणा- दुमजातिविशेषसमूहाः प्रज्ञप्तास्तीर्थकरगणधरैः हे श्रमण ! हे आयुष्मन् !, ते च कथंभूता इत्याह- कुशा:दर्भा विकुशा-बल्वजादयस्तृणविशेषा स्तैर्विशुद्धं - रहितं वृक्षमूलं - तदधोभागो येषां ते तथा, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते यथा शाखामूलमित्यादि ततः सकलवृक्षसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलमन्तः कन्दमन्त इति पदद्वयं यावत्पदसङ्ग्राह्यं च जगतीवनगततरुगणवद् व्याख्येयं, पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्नप्रतिच्छन्ना इति प्राग्वत् श्रिया अतीवोपशोभमानास्तिष्ठन्ति - वर्त्तन्ते इति भावः, 'सीसे णं समाए' इत्यादि, तस्यां समायां बहूनि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, भेरुतालादयो वृक्षविशेषाः, क्वचित्प्रभवालवणा इति पाठस्तत्र पभवाला:- तरुविशेषाः For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy