SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ समक्तारः, तत्रोत्कीर्तनं-संशब्दनं नामकथनमात्रं यथा द्वादशाङ्गोपाङ्गानां मध्ये औपपातिकं राजप्रश्नीयं जीवाभिगमाध्ययनं प्रज्ञापना सूर्यप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिरित्यादि, गणनं-परिसंख्यानं एकं द्वे त्रीणीत्यादि सा च गणनानुपूर्वी त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्र पूर्वानुपूर्व्या इदं षष्ठं पश्चानुपूर्व्या सप्तमं अनानुपूर्व्या अनियतं, नाम च एकनामादिदशनामपर्यन्तं, तत्र षड्नाम्न्यस्यावतारः, तत्र च षड् भावा औदयिकादयो निरूप्यन्ते, तत्रास्य क्षायोपशमिके भावेऽवतारः, सर्वश्रुतस्य क्षायोपशमिकभावरूपत्वात् , प्रमाणं चतुर्दा-द्रव्यक्षेत्रकालभावभेदात् , | तत्रेदमध्ययनं क्षायोपशमिकभावात्मकत्वाद् भावप्रमाणविषयं, तदपि भावप्रमाणं त्रिधा-गुणनयप्रमाणसंख्याभेदात्, तत्राचं जीवाजीवगुणप्रमाणभेदात् द्विधा, तत्र जीवोपयोगरूपत्वाजम्बूद्वीपप्रज्ञप्त्यध्ययनस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदात् त्रिधा, तत्र बोधात्मकत्वादस्य ज्ञानगुणप्रमाणे, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुष्प्रकार, तत्रास्य आप्तोपदेशरूपत्वादागमे, सोऽपि लौकिकलोकोत्तरभेदाद् द्विविधः, तत्र परममुनिप्रणीतत्वेन लोकोत्तरे, सोऽपि द्विधा-आवश्यकमावश्यकव्यतिरिक्तश्च, तत्रेदमावश्यकव्यतिरिक्ते, आवश्यकव्यतिरिक्तो द्विधा-अङ्गप्रविष्टानङ्गप्रविष्टभेदात् , तत्रेदमनङ्गप्रविष्टे, सोऽपि द्विधा-कालिकोत्कालिकभेदात् , तत्रेदं कालिके, सोऽपि सूत्रार्थोभयभेदात् || विधा, तत्रेदं सूत्रार्थरूपत्वात् तदुभये, सोऽपि आत्मानन्तरपरम्परागमभेदात् त्रिविधः, तत्र चेदं गणभृतां सूत्रत आत्मागमस्तच्छिष्याणामनन्तरागमः तत्प्रशिष्याणां तु परम्परागमः, अर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः Ketkeeeeeee FOLOT Jan श्रीजन्यू. For Private Personel Use Only Eineyo
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy