________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ७३ ॥
Jain Education Internation
| जातं ४१६६९९५१२५० एष वैताढ्यधनुः पृष्ठवर्गः अस्य मूले छेदराशि: ४०८२६४ लब्धकलाः २०४१३२ शेषक| लांशाः ७७८२६ लब्धकलानामेकोनविंशत्या भागे लब्धं यथोक्तं मानं १०७४३, अथ किंविशिष्टोऽसौ वैताढ्य | इत्याह- 'रुअगे' त्यादि, रुचकं - ग्रीवाभरणभेदः तत्संस्थानसंस्थितः सर्वात्मना रजतमयः 'अच्छे' त्यादिपदकदम्बकं प्राग्वत्, उभयोः पार्श्वयोर्दक्षिणतः उत्तरतश्च द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः अत्र यत्पद्मवरवेदिकाद्वयं तत्पूर्वापरतो जगत्या रुद्धत्वान्निरवकाशत्वेनैकीभवनासम्भवात्, अन्यथा 'सबओ समंता संपरिक्खित्ते 'ति वचनेनैकैव स्यादिति, 'ताओ णमिति, सर्व गतार्थं, नवरं पर्वतसमिका आयामेन, वैताढ्यसमाना आयामेनेत्यर्थः, अथैतद्गतगुहाद्वयप्ररूपणायाह - ' वेयद्धस्स णमित्यादि, वैताढ्यस्य पर्वतस्य 'पुरच्छिमपचच्छिमेणं'ति, अत्र सूत्रे पूर्वस्या दिशः पूज्यत्वात् आर्षत्वाद्वा पुरच्छिमेतिशब्दस्य प्रानिपातेऽपि पश्चिमायां पूर्वस्यामिति व्याख्येयं, अत्र ग्रन्थे ग्रन्थान्तरे च पश्चिमायां तमिस्रगुहायाः पूर्वस्यां च खण्डप्रपातगुहायाः अभिधानात्, द्वे गुहे प्रज्ञप्ते, प्राकृतशैल्या च बहुवचनं, उत्तरदक्षिणयोरायते, एतावता य एव वैताढ्यस्य विष्कम्भः स एवानयोरायाम इति भावः, प्राचीनप्रतीचीनविस्तीर्णे इत्याद्यर्थतो व्यक्तं, अत्र च उमाखातिवाचककृतजम्बूद्वीपसमासप्रकरणे गुहाया विजयद्वारप्रमाणद्वारेतिविशेषणदर्शनात् चतुर्योजनविस्तृतद्वारा इत्यपि विशेषणं ज्ञेयं, वज्रमयकपाटाभ्यामवघाटिते, आच्छादिते इत्यर्थः एते च द्वे अपि चक्रवर्त्तिकालवर्ज दक्षिणपार्श्वे उत्तरपार्श्वे च प्रत्येकं सदा
For Private & Personal Use Only
१वक्षस्कारे वैताढ्यवंर्णनं सू.१२
॥ ७३ ॥
www.jainelibrary.org