________________
SAR
श्रीविका ? या नराणां निकर-नृव्रजे, कल्याणकोर्टि अकरोव-तनोति स्म । निकरे किंविशिष्टे ! सामे-सरोगे । या किंविशिष्टा! शतिजिन परैरजितं-अनभिभूत बलं यस्याः सा । पुनः कि? अदुरिता-अनधा। नितान्त अत्यर्थम् ॥४॥ स्तुतयः ॥३॥
सम्भवजिनस्तुतयः या दुर्लभा भवभृतामृभुवल्लरीव, मानामितद्रुमहिमाभ ! जितारिजात !। श्रीसम्भवेश ! भवभिद् भवतोऽस्तु सेवा-माना मितद्रुमहिमाभ? जितारिजात!॥१॥
वि०-हे श्रीसम्भवेश ! भवतः सा सेवा भवभित्-संसारनाशिनी, अस्तु । सा का ? या सेवा भवभृतां प्राणिनां, ऋभुवल्लरीव-कल्पलतेव, दुर्लभा-दुष्षापाऽस्ति । या किंविशिष्टा! अमाना-मानातीता। मितद्रुः-समुद्रः सद्वन्महिन्न आयाशोभा यस्य तत्संबोधनं ! । हे जितारिजात !-जितारिनृपपुत्र ! । मानः-स्मयः तद्रूपामितद्रुमे-प्रौढवले हिमाभ:तुहिनसमस्तत्सं०?। जितं अरिजात-वैरिवन्दं येन तत्सं०!॥१॥
नाशं नयन्तु जिनपङ्कजिनीहृदीशा, निष्कोपमानकरणानि तमांसि तानि । ज्ञानद्युता बहुभवभ्रमणेन तप्त-निष्कोपमानकरणा नितमां सितानि ॥२॥
300R SASS APREPARAN
ReceneA
Jain Education
a
l
For Private Personal Use Only