SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः सिरिसंति- नाहचरिए बभूव कारुण्यपरिग्रहाय कृताग्रहः कुग्रहदर्पहन्ता । विपत्तिसंपत्तिसमानुरागी यशोधरो धीरिमधाम तुर्यः ॥२५॥ जिनेन्द्रपूजारचनानुबन्धः बद्धोद्यमो निर्मलकीर्तिशेषः । भक्त्या समासेवितसर्वदेवस्ततोऽनुजोऽजायत सर्वदेवः ॥२६॥ मुक्ताफलारंभरतिर्न दीनो विश्रामभूमिः पुरुषोत्तमानाम् । पयोधिवन्नित्यगभीरभावः पष्ठस्तनूजोऽऽजनि चापदेवः ॥२७॥ तत्रासीद् रामदेवस्य वल्लभा शीलशालिनी । आसदेवीति विख्याता सुरूपा रूपिकाऽपरा ॥२८॥ यशोधरस्य जाया च थेहिका हितकारिणी । शोभना सर्वदेवस्य चापदेवस्य शान्तिका ॥२९॥ अस्ति स्म थेहड इति प्रथिताभिधानः कुन्दावदातहृदयः सदयः सदैव ।। धीरो यशोधरसुतः कलितः कलाभिः नित्यः प्रशस्तचरितः प्रणतो गुरूणाम् ॥३०॥ आनन्दकः सुमनसा सततं सुधर्मा बद्धादरः कृतविमानमनप्रवृत्तिः । आस्ते महेन्द्र इव वल्लभचित्रलेखः श्री रामदेवतनयो विनयी महेन्द्रः ॥३१॥ हरिचन्द्राभिधानश्च द्वितीयोऽभूत्तनूद्भवः । वल्लभः सर्वलोकानां प्रतिपचन्द्रमा इव ॥३२॥ विनयी नयसंवासो चापदेवस्य नन्दनः । गोसलाख्यः सुशीलोऽभूदु गुणरत्नमहानिधिः ॥३३॥ आसीदाद्या महेन्द्रस्य महाश्री-रूपसप्रियाः । राज्यश्रीः शील-कारुण्य-दानौचित्यादिशालिनी ॥३४॥ राज्यश्रियस्त्रयः पुत्रा वीसलोऽथ यशोभटः । वोचिस्थश्चेति संजाता गुणरत्नौघरोहणाः ॥३५॥ राज्यश्रीरन्यदा तत्र शुद्धश्रद्धानबंधुरा । इत्येवं चिन्तयामास निस्समानगुणोज्ज्वला ॥३६॥ २०
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy