SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए “प्राणा वायुमयाः, स्वभावतरला लक्ष्मीः कटाक्षस्थिरा, स्वाम्यंबालविलंबिता तनुशिलावस्थानदुस्थं सदा । बातांदोलितदीपकुड्मलदलप्रायः प्रियैः संगमस्तन्नास्तीह किमप्युदारमनसामाशामिवेशास्पदं ||३७|| तल्लब्ध्वा मनुजेषु जन्म विमलं संप्राप्य देशादिकम्, श्रुत्वा श्रीजिनचन्द्रवाचमुचितां श्रीमद्गुरूणां पुरः । स्वाधीने च धने च संगतवति स्वीये कुटुम्बे सताम्, युक्तो धर्मविधान एव सततं कर्तुं महानुद्यमः ॥ ३८ ॥ सम्यग्ज्ञानपुरः सरश्च महतां धर्मादरः सम्मतः, प्रायस्तच्च जिनागमादविकलं संजायते धीमताम् । सर्वं लोकमवेक्ष्य शान्तविशदप्रज्ञाप्रकर्षोद्यमं काले सोऽपि कलौ न्यवेसि मुनिभिः संघोत्तमैः पुस्तके ॥३९॥ चारित्र भारचरणासहमानसेन पंचप्रकारविषयामिषलालसेन । पात्रादिदानमयधर्मवता तदेवं लेख्यं परिग्रहवता गृहिणा तदेव ॥४०॥ एवं विचिन्त्य सुचिरं श्रेयोर्थं स्वस्य सांबराज्यश्रीः । श्रीशान्तिनाथचरितस्य पुस्तकं लेखयामास ॥४१॥ विरचितविचित्ररेखं सुवर्णपत्रावलीकलितशोभम् । यद्भाति करे विदुषां कंकणमिव कीलिकारम्यम् ॥४२॥ राकाशीतांशुशुभ्रस्फुरदमलदृशः सर्ववस्तुप्रकाशी सम्यग्ज्ञानप्रदीपस्त्रिभुवनभवनाभ्यन्तरे भासमानः । यावन्मोहान्धकारं शमयति सकलं पूरिताशेषदोषम्, तावन्नन्यान्मुनीन्द्रैरयमिह सततं पुस्तकः पश्यमानः ॥४२॥ ॥ इति ॥ श्री शुभं भूयात् ॥ १० 50505050505 प्रशस्तिः ९०३
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy