________________
सिरिसंतिनाहचरिए
प्रशस्तिः
आराधितश्रीजिननेमिनाथः सम्पादितानन्तखलप्रमाथः । आसीद द्वितीयो धनदेवसंज्ञः सदा सदाचारविचारविज्ञः ॥१७॥
यस्याऽसमानफलकान्तगुणाभिरामम्, संरुद्धरन्ध्रमविलासिजलप्रवेशम् । सद्धीवरैरनुगतं मतियानपात्रं गम्भीरकार्यजलधेः परभागमेति ॥१८॥ विवेकिजनवल्लभः स्फटिकशैलशुद्धाशयः, कलंकविकलः सदा सकललोकसंतोषदः । बभूव जिनपूजकः सुगुरुवन्दकश्रावकः तृतीय इह नन्दनः सुजननन्दनः श्रीधरः ॥१९॥ तत्रोज़िलस्य समजायत धर्मपत्नी मन्दाकिनीसलिलनिर्मलशीलयुक्ता । लक्ष्मीः समस्तजनवाञ्छितदानदक्षा चित्रं न निर्गुणरता न चलस्वभावा ॥२०॥ उल्लासकाः सुमनसा विदितानुभावाः सम्पादकाः समयिनां बहुलं फलानाम् ।
नित्यं निजक्रमयुता भुवनप्रसिद्धाः पुत्रास्तयोः ऋतुसमाः षडिहोपजाताः ॥२१॥ कारुण्यरत्नाङ्करमेरुशैलः सौजन्यपीयूषरसाम्बुराशिः । आद्यः सुतोऽजायत वर्धमानस्तेषां कलाभिः परिवर्धमानः ॥२२॥ १० अपारगाम्भीर्यनिवासभूमिर्विद्वत्सु श्राद्धादिजनोपकारी । अनल्पलावण्ययुतो द्वितीयः पुत्रः पवित्रोऽजनि मूलदेवः ॥२३॥ कीर्तेः पात्रं निजगुरुगिरां पालने लब्धलक्षः, स्थानं नीतेर्जनकनयनानन्ददायी सदैव । दूरीभूताखिलखणउलो जातवान् पुत्ररत्नं तार्तीयीकः कुशलवसुतावल्लभो रामदेवः ॥२४॥
९०१