________________
Jain Education Intern
श्रीकालिकाचार्य गुरुर्नृपान्ते, जगाम कामं नयवाक्यपूर्वम् । नयं जगादेति नरेन्द्र ! मुञ्च, स्वसारमेतां मम यद्रतस्थाम् ॥ १३ ॥ अन्योऽपि यो दुष्टमतिः कुशीलो, भवेत्त्वया स प्रतिषेध्य एव | अन्यायमार्ग स्वयमेव गच्छ-न्न लज्जसे सत्यमिदं हि जातम् ॥ १४ ॥ यत्रा - स्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च । वनं भजध्वं ननु नागरा भो, यतः | शरण्याद्भयमत्र जातम् ॥१५॥ नरेन्द्रकन्याः किल रूपवत्य- स्तवावरोधे ननु सन्ति वह्नयः । तपःकृशां जल्लुभरातिजीर्णवस्त्रां विमुञ्चाशु मम स्वसारम् ॥ १६ ॥ निशम्य सूरीश्वरवाक्यमेतन्न भाषते किञ्चिदिह क्षितीशः । श्रीकालिकाचार्यवरोऽथ सङ्घ - स्याग्रे स्ववृत्तान्तमवेदयत्तत् ॥१७॥ सङ्घोऽपि भूपस्य सभासमक्षं, दक्षं वचोऽभाषत यन्नरेन्द्र ! | न युज्यते ते यदिदं कुकर्म, कर्त्तुं प्रजां पासि पितेव लोकम् ॥ १८ ॥ इति ब्रुवाणेऽपि यथार्थ - मुच्चैः, स न चामुञ्चदसौ महीशः । महासतीं तामिति तन्निशम्य, कोपेन सन्धां कुरुते
For Private & Personal Use Only
w.jainelibrary.org