________________
श्रमणसूत्रम्
अवचूरिसमलंकृतम्
CRECIPARACECTCSCAREE
ग्रहणं तत्र, अत्र तमपरित्यजतोऽतिचारः, अनेन प्रकारेण याऽनेषणा तया, प्राणिनो रसजादयो भोजने संसक्तदध्यादौ व्यापाद्यन्ते यस्यां प्राभृतिकायां सा तया, एवं बीजभोजनया, हरितभोजनया, अत्र संघट्टादि दातृग्राहकेभ्यो ज्ञेयं, पश्चाहानानंतरं जलेन | हस्तधावनादिरूपं कर्म यस्यां सा, तया, गृहांतरस्था अदृष्टा सती याहृता आनीता भिक्षा तया, एवं उदकसंसृष्णा आहृतया, हस्तमात्रगतोदकसंसृष्टाहतया चा, एवं रजः पृथ्वीकायः, तत्संसृष्टाहतया, परिसाटनं धान्यघृतचिंढादिच्छईनं, लेन निवृत्ता- पारिसाटनीकी तया. परिणापनं प्रदानभाजनगताऽकल्पद्रव्यांतरोज्झनरूपं तेन निर्वत्ता तया, ओहासणं समभाषया विशिष्टद्रव्ययाचन, तत्प्रधाना भिक्षा तया, सर्वदोषसंग्रहार्थमाह-यत्किंचित् अशनादि उद्गमेन आधाकर्मादिरूपया अनेषणया शंकितादिरूपया अपरिशुद्धं परिगृहीतं प्रतिभुक्तं, कथंचिद् गृहीतमपि यन्न परिष्टापितं यनोज्झितं अपुनःकरणेन तस्य मिथ्या मे दु-कृतं ॥ ८॥ एवं गोचरातिचारप्रतिक्रमणमभिधाय स्वाध्यायातिचारानाह| पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमजणाए दुप्पमजणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइआरो कओ | तस्स मिच्छामि दुक्कडं ॥९॥
प्रतिकमामि चतुःकालं, दिनरात्रिआघांऽतिमयामेषु स्वाध्यायस्य सूत्रपौरुष्या अकरणेन, उभयकालं प्रथमपश्चिमपीरुप्योभीडोपकरणस्य वखपात्रादेः अप्रतिलेखनया मूलत एव चक्षुषाऽनिरीक्षणेन, दुःप्रतिलेखनया दुनिरीक्षणया, अप्रमार्जनया रजोहरणादिना दुःप्रमार्जनया तेनैव अर्धविषमविधिना, आधाकर्मादिनिमंत्रणे गृहीष्ये, एवं प्रतिश्रुण्यति साधी अतिक्रमस्तत्र तद्गृहणार्थ गच्छति व्यतिक्रमः नत्र गृहीते अतिचारः, तत्र भुक्तेऽनाचारः, यथा कर्मणि अतिक्रमादयः, तथान्यत्रापि यो मया देवसिकोऽतिचारः कृतः तस्य मिथ्या मे दुःकृतं ॥ ९ ॥
ACCORRRRRRRRRRRAO
Jain Education Intern
For Private & Personel Use Only
"www.jainelibrary.org