________________
कल्प.
सुबो.
11६८॥
0000000000000000000000000000000000000000000
केचिद्वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटाः परदेशं गच्छन्तोऽरएयं प्रविष्टास्तत्र जलाऽभावेन तुषाकला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, ततस्तैरेकं शिखरं स्फोटितं, तस्माहिपुलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि परितवन्तः, तत एकेन वृद्धेनोक्तं सिद्धं अस्माकं समीहितं, अथ मा स्फोटयन्तु द्वितीयं शिखरं, इति निवारिता अपि द्वितीयं स्कोटयामासुस्तस्माच्च सुवर्ण प्राप्तवन्तः, तथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तस्तस्माद्रत्नानि प्राप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्य अपि स्फोटयन्ति स्म, तस्माच्च प्रादुर्भूतेन दृष्टिविषसर्पण सर्वेऽपि स्वदृष्टिपातेन पञ्चत्वं प्रापिताः, स हितोपदेशको वणिक् तु न्यायित्वात् आसन्नदेवतया स्वस्थाने मुक्तः एवं तव धर्माचार्योऽपि एतावत्या स्वसम्पदा असन्तुष्टो यथा तथा भाषणेन मां रोषयति तेनाहं खतपस्तेजसा धक्ष्यामि, ततस्त्वं शीघ्रं तत्र गत्वा एनं अर्थ तस्मै निवेदय, त्वां वृद्धवणिजमिव हितोपदेशकत्वात् जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवद्ग्रे सर्व व्यतिकरं कथितवान् , ततो भगवता उक्तं, भो आनन्द शीघ्रं त्वं गौतमादीन् मुनीन् कथय, यत् एष गोशाल आगच्छति,
10000000000000000000000000000000000000000000000000
॥६॥
200000
Jain Education International
For Private & Personal use only
www.jainelibrary.org