SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Vococo०० कल्प० सुबो ॥५८॥ 000000000000000000000000000000000000000000000000000 आपृच्छयाऽष्टौ प्रियाः परित्यज्य दीक्षां गृहीतवान् , प्रभुणा च शिक्षार्थ स्थविराणां अर्पितस्तत्र अनुक्रमेण संस्तारककरणे द्वारपार्श्वे मेघकुमारस्य संस्तारक आगतस्ततः प्रश्रवणाद्यर्थ गच्छदागच्छत्साधुपादरजोनिभरितः, समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्तः, चिन्तयामास क्व मे सुखशय्या, क्वचेदं भूलुठनं, कियत्कालं इदं दुःखं मया सोढव्यं, ततः प्रातः प्रभुमापृच्छय गृहं यास्यामीति प्रभाते प्रभुपार्श्वमागतः, प्रभुणापि मधुरवचनेन आभाषितः, ' वत्स त्वया निशि एवं दुर्ध्यानं कृतं, अविचारितं एतत् ' नरकादिदुःखाग्रे कियदेतद् दुःखं, तान्यपि दुःखानि | सागरोपमाणि अनेकानि यावत् प्राणिना बहुशः सोढानि, किञ्च-वरमगिम्मि पवेसो । वरं विसुद्धेण कम्मुणा | मरणं ॥ मा गहियव्ययभङ्गो मा जीअं खलिअसीलस्स ॥१॥ तथा इदं चारित्रादिकष्टानुष्ठानं महते फलाय भवति, यथा त्वयैव पूर्वभवे अनुभूतं धर्मार्थ कष्टं एतावत्फलप्रापकं अभवत् , शृणु ततः पूर्वभवान् , यथा इतस्तृतीये भवे वैताढ्यभूमौ षड्दन्तः शुभ्रो हस्तिनीसहस्रभ" सुमेरुप्रभनामा त्वं गजराजोऽभूः, अन्यदा दावानलाहीतः पलायमानरतृषितः पङ्कबहुलं एकं सरः प्राप्तस्तत्र चाज्ञातमार्गः पङ्के निमग्नो नीरातीराच्च भ्रष्टः, पूर्ववैरिहस्तिना दन्तैर्हन्यमानः सप्त दिनानि वेदनां अनुभूय सविंशं शतं आयुः समाप्य विन्ध्याचले रक्तवर्णश्च ०००००००००००cokokokokrocococoreok ॥५८॥ Jain Education in For Private & Personal Use Only dow.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy