________________
कल्प.
००००००००००००००००००००००००००००००००००००००००००००००00000
तर्दन्तः सप्तहस्तिनीशतभर्ती हस्ती जातः, क्रमेण च दावानलं दृष्टा जातजातिस्मरणः पूर्वभवं स्मृतवान् , ततो दावानलपराभवरक्षणाय योजनपरिमितं मण्डलं कृतवान् , तत्र वर्षाणां आदौ मध्ये अन्ते च यत् किञ्चित् तृणवल्ल्यादि भवति, तत् सर्व उन्मूलयति, अन्यदा च दावानलाहीताः सर्वे वनजीवास्तन्मण्डलं व्याप्तवन्तस्त्वमपि शीघ्रं आगत्य तत्र मण्डले स्थितः, कदाचिद् देहकण्ड्रयनेच्छया एकं पादं उत्पाटितवान् , उत्पाटिते च तस्मिन् पादे अन्यत्र साङ्कीर्ण्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कण्डयित्वा च पादं मुञ्चन् शशकं दृष्ट्वा तद्दयया सार्ध दिनद्वयं तथैव पादं स्थापितवान, उपशान्ते च दावानले सर्वेषु स्थानं गतेषु विलगितपादो झटिति भूमौ पतितस्ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्यात्र श्रेणिकधारिण्योः पत्रत्वेन जातस्त्वं, ततो भो मेघ तदानी तिर्यग्भवेऽपि त्वया धर्मार्थं तत्कष्टं सोढं, तर्हि जगहन्यसाधूनां चरणैर्घट्यमानः किं दूयसे, इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतो मेघकुमारो नेत्रे विमुच्याऽन्यत्सर्व शरीरं मया व्युत्सृष्टं इत्यभिग्रहं कृतवान् , क्रमात् निर्रतिचारं चारित्रमाराध्यान्ते मासिकी | संलेखनां कृत्वा विजयविमाने सुरोऽभवत् , ततश्व्युतो महाविदेहे सेत्स्यति, इति श्रीमेघकुमारकथा ।
700000000000000000000000000000000000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org