________________
कल्प०
सुबो.
॥४५॥
000000000000000000000000000000000000000०००
यकउत्ति ) शतं कतवः श्राद्धपञ्चमप्रतिमारूपा यस्य स शतक्रतुः, इदं हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि-पृथिवीभूषणनगरे प्रजापालो नाम राजा, कार्तिकनामा श्रेष्ठी, तेन श्राद्धप्रतिमानां शतं कृतं, ततः शतक्रतुरितिख्यातिः, एकदा च गैरिकपरिव्राजको मासोपवासी तत्रागतः, एकं कार्तिकं विना सर्वोऽपि | लोकस्तहक्तो जातः, तच्च ज्ञात्वा कार्तिकोपरि गैरिको रुष्टः, एकदा च राज्ञा निमन्त्रितोऽवदत्, यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोक्तं यत्त्वं मद्गृहे गैरिकं भोजय,' ततः कार्तिकेणोक्तं 'राजन् भवदाज्ञया भोजयिष्यामि,' ततः श्रेष्ठिना भोज्यमानो गैरिको धृष्टोऽसीति अङ्गुलिना नासिकां स्पृशंश्चेष्टां चकार, श्रेष्ठी दध्यौ यदि मया पर्व दीक्षा गृहीताऽभविष्यत्तदाऽयं न पराभविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिपुत्रैः सह चारित्रं गृहीत्वा द्वादशाङ्गी अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत् , गैरिकोऽपि निजधर्मतस्तहाहनं औरावणोऽभवत, ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः, स च शकभापनार्थ रूपवयं कृतवान् , शक्रोऽपि तथा, एवं रूपचतुष्टयं, शक्रोऽपि तथा, | ततश्चावधिना ज्ञातस्वरूपस्तं तर्जितवान तर्जितश्च स्वाभाविक रूपं चक्रे, इति कार्तिकश्रेष्ठिकथा ॥
00000000000000000000000000000000000000000000000000
॥४५॥
Jain Education in
For Private & Personal Use Only
O
w.jainelibrary.org