________________
कल्प.
सुबो
॥४६॥
0000000000000000000000000000000000000000000000000
सहरसख्के मघवं पागसासणे दाहिणडुलोगाहिबई एरावणवाहणे सुरिंदे बत्तीसविमाणसयसहस्साहिवई अरयंबरवत्थधरे आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगल्ले महि
(सहस्सक्खेत्ति) मन्त्रिदेवपञ्चशत्या लोचनानि इन्द्रसम्बन्धीन्येवेति सहस्राक्षः ( मघवंति ) मघा | महामेघा वशे सन्त्यस्येति मघवान (पागसासणेत्ति ) पाकं दैत्यं शास्ति शिक्षयतीति पाकशासनः ( दाहिणलोगाहिवइत्ति ) मेरोदक्षिणतो यल्लोकाध तस्याधिपतिः, उत्तरार्धलोकस्य ईशानस्वामिकत्वात् (एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्र आह्लादकः ( बत्तीसविमाणसयसहस्साहिवइत्ति) द्वात्रिंशल्लक्षविमानाधिपतिः (अरयात्ति) अरजस्कानि, रजोरहितानि ( अंबरवत्थधरेत्ति ) स्वच्छतया अम्बरतुल्यानि वस्त्राणि अम्बरवस्त्राणि तानि धरतीति अरजोम्बरवस्त्रधरः (आलइअमालमउडत्ति ) आलगितौ यथास्थानं परिहितौ मालामुकुटौ येन स तथा, ( नवत्ति ) नवाभ्यां इव ( हेमत्ति ) हेमसत्काभ्यां (चारुत्ति) चारुभ्यां मनोज्ञाभ्यां (चित्तत्ति) चित्राभ्यां चित्रकारिभ्यां (चवलकुंडलत्ति) चपलाभ्यां इतस्ततः कम्पमानाभ्यां ईदृशाभ्यां कुण्डलाभ्यां (विलिहिज्जमाणगल्लेत्ति ) विलिख्यमानौ गल्लौ यस्य स तथा ( महिड्डीएत्ति )
०००000000000000000000000000000000000000000000000000
॥४६॥
Jain Education in
For Private Personel Use Only
alww.jainelibrary.org