SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ कल्प. 0000000000000000000000000000000000000000000000000000 अज्जेणं खुरमुंडेण वा लुक्कसिरएण वा होयव्वं सिया । पक्खिया आरोवणा । रजनी भाद्रपदपञ्चमारात्रिं साम्प्रतं चतुर्थीरात्रिं नातिकामयेच्चतुर्थ्या अर्वागेव लोचं कारयेत् , अयं भावः-यदि समर्थस्तदा वर्षास नित्य लोचं कारयेदसमर्थोऽपि तां रात्रिं नोल्डन्येत् , पर्यषणापर्वणि लोचं विना प्रतिक्रमणस्याऽवश्यमकल्प्यत्वात् , केशेष हि अप्कायविराधना तत्संसर्गाच्च यूकाः समर्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरांसे नखक्षतं वा स्यात् , यदि क्षरेण मुण्डापयति कर्त्तर्या वा तदाज्ञाभङ्गाद्याः दोषाः, संयमात्मविराधना, यूकाश्छिद्यन्ते, नापितश्च पश्चात्कर्म करोति, शासनापभ्राजना च, ततो लोच एव श्रेयान् , यदि वाऽसहिष्णोर्लोचे कृते ज्वरादिर्वा स्यात् कस्यचिद् , बालो वा रुद्याद्धर्म वा त्यजेत्ततो न तस्य लोच इत्याह-( अजेणं खुरमुंडेण वा लुक्कसिरएण || वा होयव्वं सिया) आर्येण साधुना उत्सर्गतो लुञ्चितशिरोजेन, अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र केवलं प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि तेन करौ क्षालयति, यस्तु क्षुरेणापि कारयितुमसमर्थो व्रणादिमच्छिरा वा तस्य केशाः कर्त्तर्या कल्पनीयाः (पक्खिया आरोवणा) पक्षे पक्षे संस्तारकदवरकाणां बन्धा मोक्तव्याः: प्रतिलेखितव्याश्चेत्यर्थः, अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं, वर्षासु D0000000000000000000000000000000000000000000000000०. ॥५८३॥ Jain Education in For Private & Personel Use Only LLw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy