________________
कल्प.
॥४॥
0000000 FO-308-0000000000000000000000000000000000000000
श्रीमति च स्थानाङ्गे स्पष्टमुल्लेखोऽस्याष्टमाध्ययनतया स्थाने दशमे, तुर्ये च समवायाख्य प्रवचनपुरुषाङ्गभूतेऽङ्गे दृश्यतेऽस्यातिदेशो " जहा कप्पे" इतिवचनेनेति नारेकास्याष्टमाध्ययनतायां दशाश्रुतस्कन्धस्य । समणे भगवं महावीरे बहणं समणाणं इत्यादिवचनतो नेदं व्यराचि महापुरुषेणाप्यनेनेत्यप्यतिरेका न हितावहा, "सणयं सोदाहरण" मित्यादिवचनादेतस्मिन्नपि केषांचित् साङ्गोपाङ्गानां तत्रत्यानां सूत्राणां न्यासात सूत्रामिदमेवं, एवमेव च प्रज्ञापनादौ गौतमाद्यभिधानाङ्कितेऽपि निर्धार्यम् , नतूच्छृङ्खलप्रेरितैर्भाव्यं नास्तिकैः। स्वकालावध्यन्तरज्ञापनाय चान्तरेषु स्थविरावल्यां चाख्यायि श्रीदेवगिणिपूज्यैः स्वं यावत्कालोऽन्तरं च, एतस्यैतदाधारेण श्वेताम्बराणां च प्रामाणिकता निश्चीयते मथुरापुरीयशिलालेखावलोकनतः, यतो दृश्यते तत्र भगवत्यस्मिन्नाख्यातानि शाखाकुलादीनि, प्राचीनतमाश्च ते लेखा इति सुस्थं समम् । पञ्चशती चाचार्याणां शासनप्रवराणामासीत्तदा पुस्तकारोहणससदि, नचर्ने तस्या विश्वासमहेंदाख्यातोऽप्यर्हतागमो विश्वासमन्यथा तत्रभवन्नाम्नैव प्रख्यापयेत्सर्वमाविष्कृत्य स्वमनीषाकल्पितं, पुराणप्रभावकान्ययूथिकवत् । तदियतावसेयमेतद् यदुत पर्यवसानस्थविरावलिभेदं रचितमन्येन नत्वन्यदिति, पाश्चात्यपट्टावलीव तस्या न्यासात् , भाषाशास्त्रापेक्षयापि नास्याचीनता, तथाविधस्वादुमुगमपदप्रबन्धमयाद्यनेककारणानामत्रावलोकनात्तद्धेतुभूतानाम् । सामाचारीप्रकरणमपि तथाविधसुविहितयोग्य समाचारवृन्दमाविर्भावयन् किमिव न तोषयेत् सद्गतिनिदानसदाचारलोलुपानलोलुपान् । तदेवं श्रीमदकलङ्कमहावीरादिऋषभपर्यन्ताजिनाधिपान्, सुधर्मसुधर्मावनताहिपद्मसुधर्मादिदेवगिणिक्षमाश्रमणपर्यवसानान् स्थविरान् , स्वर्गापवर्गनिबन्धनश्रामण्यसाधकपर्युषणादिप्रत्युपेक्षणान्तान्समाचारान्प्रकटयप्रकटप्रभावमेतदिति मंगलमेव तत्रभवतां श्रमणानाम् , विशेषतश्चावस्थाने प्रतिष्ठान इवाहता वर्षावासस्य अनन्तानुबन्धिनिवारणप्रत्यलसांवत्सारकप्रतिक्रान्तिनिखिलकर्मक्षयक्षमतपःकर्मप्रभृतिप्रचुरतरधमाधारस्य, अत एव चाचारोऽयं
00000000000000000000000000000000000000000000000000000
॥४
॥
Jain Education
For Private & Personel Use Only
S
ww.jainelibrary.org