________________
कल्प०
॥४१॥
0000000
सिक्खाणे सिक् खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नसु अ बहुसु भण्णएस परिवायएस नए सु
गणितशास्त्रे, यथा- अर्ध तोये कर्दमे द्वादशांशः । षष्ठो भागो वालुकायां निमग्नः ॥ साधें हस्तो दृश्यते यस्य तस्य । स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥ १ ॥ स्तम्भो हस्ताः ६ क्वचित् ( सिक्खाणोत् पाठः ) तत्र सिक्खाणशब्देन आचारग्रन्थः ( सिक्खाकप्पोते ) शिक्षाऽक्षराम्नायग्रन्थः, कल्पश्च यज्ञादिविधिशास्त्रं तत्र, तथा ( वागरणोत्त) व्याकरणे शब्दशास्त्रे, तानि च विंशतिः, ऐन्द्र १ जैनेन्द्र २ सिद्धहेमचन्द्र ३ चान्द्र ४ पाणिनीय ५ सारस्वत ६ शाकटायन ७ वामन ८ विश्रान्त ९ बुद्धिसागर १० सरस्वतीकण्ठाभरण ११ विद्याधर १२ कलापक १३ भीमसेन १४ शैत्र १५ गौड १६ नन्दि १७ जयोत्पल १८ मुष्टिव्याकरण १९ जयदेवाभिधानानि २० ॥ ( छंदेत्ति ) छन्द:शास्त्रे (निरुत्तेत्ति) पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः ( जोइसामयणोत्ते ) ज्योतिःशास्त्रे ( अन्नेसु अ बहुसुत्ति ) एषु पूर्वोक्तेषु अन्येषु च बहुषु ( बंभण्णएसत्ति ) ब्राह्मणहितेषु शास्त्रेषु ( परिव्वायएसुति ) परिव्राजकसम्बन्धिषु ( नएस )
Jain Education International
For Private & Personal Use Only
सुबो•
118911
www.jainelibrary.org