________________
कल्प०
सबो.
॥३८॥
1900000000000000000000000000000000000000000000000000
माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंग
व्यञ्जनानि च मषतिलकादीनि तेषां ये गुणास्तैरुपपेतं, पुनः किंवि० ( माणुम्माणपडिपुन्नसुजायसव्वंगसुंदरंगंति ) तत्र मानं जलभृतकुण्डान्तः पुरुष निवेशिते यदि तज्जलं द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्धभारमानः स्यात्तदा स उन्मानप्राप्तः, तत्र भारमानं-षट्सर्षपैर्यवस्त्वेको । गुजैका च यवैस्त्रिभिः ॥ गुञ्जात्रयेण वल्लः स्याद् । गद्याणे ते च षोडश ॥१॥ पले च दश गद्याणा-स्तेषां सार्धशतं मणे ॥ मणैर्दशभिरेका च । धटिका कथिता बुधैः ॥ २ ॥ धटिभिर्दशभिस्ताभि-रेको भारः प्रकीर्तितः ॥ अत्र तेषां साईशतं मणे इति तेषां गद्याणानां इति वाच्यं, न त पलानां, पलानां सार्धशतेन मणकथने हि भारे अष्टसप्ततिर्मणाः स्युस्तदर्ध च एकोनचत्वारिंशन्मणा एतावच्च शरीरमानं न सम्भवति, गद्याणानां सार्धशतेन मणकथने तु भारे चत्वारिंशत् शेरमानेन पादोना अष्ट मणाः किश्चिदधिका जायन्ते, सम्भवति तदर्धमानं पञ्चशेराधिकपादोनचतुर्मणप्रमाणं शरीरमिति, भवति च गयाणकानां सार्धशतस्यापि मणत्वं
19000000000000000000000000000000000000000000000000000
॥३८॥
Jain Education Inter
!
For Private & Personel Use Only
Mainelibrary.org