________________
कल्प.
॥३७॥
roooooooooooooooooooooooooooooooooooooooooooooooooc
॥ ८ ॥ अरेखं बहुरेखं वा । येषां पाणितलं नृणाम् ॥ ते स्युरल्पायुषो निःस्वा । दुःखिता | | | सुबो० नात्र संशयः ॥ ९ ॥ अनामिकान्त्यरेखायाः । कनिष्ठा स्याद्यदाधिका ॥ धनवृद्धिस्तदा पुंसां । मातृपक्षो बहुस्तथा ॥ १० ॥ मणिबन्धात् पितुलेखा । करभाद्विभवायुषोः ॥ लेखे हे यान्ति तिस्रोऽपि । तर्जन्यङ्गष्ठकान्तरम् ॥ ११ ॥ येषां रेखा इमास्तिस्रः । सम्पूर्णा दोषवार्जिताः ॥ तेषां गोत्रधनायूंषि । सम्पूर्णान्यन्यथा न तु ॥ १२ ॥ उल्लङ्घन्यन्ते च यावन्त्योङ्गुल्यो जीवितरेखया ॥ पञ्चविंशतयो ज्ञेया-स्तावन्त्यः शरदां बुधैः ॥ १३ ॥ यवैरङ्गुष्ठेमध्यस्थै-विद्याख्यातिविभूतयः ॥ शुक्लपक्षे तथा जन्म । दक्षिणाङ्गुष्ठगैश्च तैः ॥ १४ ॥ न स्त्रीस्त्यजति रक्ताक्षं । नार्थः कनकपिङ्गलम् ॥ दीर्घबाहुं न चैश्वर्यम् । न मांसोपचितं सुखम् ॥ १५ ॥ चक्षुःलेहेन सौभाग्यं । दन्तस्नेहेन भोजनम् ॥ वपुःस्नेहेन सौख्यं स्यात् । पादनेहेन वाहनम् ॥ १६ ॥ उगविशालो धनधान्यभोगी । शिरोविशालो नृपपङ्गवश्च ॥ कटीविशालो बहुपुत्रदारो । विशालपादः सततं सुखी स्यात् ॥ १७ ॥ इमानि लक्षणानि ॥
000000000000000000000000000000000000000000000000000
For Private Personal Use Only
OILjainelibrary.org
Join Education Intel 2