________________
कल्प.
000000000000000000000000000000000000000000000000000
तथात्रापि, एवं तर्हि अप्रमाणे मासे देवपजामनिदानावश्यकादिकार्यमपि न कार्य, इत्यपि वक्तुं माधरौष्ठं चपलय, यतो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्त्तव्यान्येव, यानि च सन्ध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कश्चन सन्ध्यादिसमयं प्राप्य कर्त्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तदद्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग् विचारय ॥ तथा च पश्य अचेतना वनस्पतयोऽधिकमासं नाङ्गीकुर्वते, येनाधिकमासं प्रथमं परित्यज्य द्वितीय एवं मासे पष्प्यन्ति, यदुक्तं आवश्यकनिर्यक्ती-जइ फल्ला कणिआरया । चअगणा अहिमासयंमि घुटुंमि ॥ तुह न खमं फुल्लेउं । जइ पच्चंता करिति डमराई ॥ १ ॥ तथा च कश्चित् 'अभिवडूि अंमि वीसा इअरेसु सवीसइमासे' इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां करोति, तदप्ययुक्तं, येन · अभिवडिअंमि वीसा' इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा 'आसाढमासिए पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जोसविताणं अववाउत्ति' श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपूर्णिमायामेव लोचादिकृत्यविशिष्टा कर्त्तव्या स्यात् , इत्यलं प्रसङ्गेन ॥ कल्पोक्ता द्रव्य क्षेत्र काल३ भावष्ट स्थापना चैवं-द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः, सचित्तादीनां
000000000000000000 000000000000000000000000000000000000000
॥५२८॥
Jain Education Intel
For Private & Personel Use Only
Nw.jainelibrary.org