________________
सबो
00000000000000000000
99000000000000000000000000000000000000000000000000
|| भावे तु पञ्चपञ्चदिनवृद्ध्या दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यां एव । गृहिज्ञाता तु द्वेधा, सांवत्स- | रिककृत्यविशिष्टा गृहिज्ञातमात्रा च, तत्र सांवत्सरिककृत्यानि-संवत्सरप्रतिक्रान्ति-लुंञ्चनं चाष्टमं तपः ॥ सर्वार्हद्भक्तिपजा च । सङ्घस्य क्षामणं मिथः ।। १ ॥ एतत्कृत्यविशिष्टा च भाद्रसितपञ्चम्यां एव, कालिकाचार्यादेशाच्च चतुर्थ्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवढिते वर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्मेति पृच्छतां गृहस्थानां पुरो वन्दन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगान्ते चाषाढो वईते नान्ये मासास्तट्रिपनकं त अधना सम्यग न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्तेति वृद्धाः। अत्र कश्चिदाह-ननु श्रावणवृद्धौ श्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न तु भाद्रसितचतुर्थ्या, दिनानां अशीत्या| पत्तेः, 'वासाणं सवीसइराए मासे विइकते' इति वचनबाधा स्यादिति चेन्मैवं, अहो देवानप्रियाः : एवं आश्विनवृद्धी | चतुर्मासककृत्यं आश्विनसितचतुर्दश्यां कर्त्तव्यं, यस्मात् कार्तिकसितचतुर्दश्यां करणे तु दिनानां शतापत्त्या, 'समणे | भगवं महावीरे वासाणं सवीसइराए मासे विइकंते सित्तरिराइंदिएहिं सेसेहिं' इति समवायाङ्गवचनबाधा स्यात्, न च वाच्यं चतुर्मासिकानि हि आषाढादिमासप्रतिबद्धानि, तस्मात् कार्तिकचतुर्मासकं कार्तिकसितचतुर्द
0000000000000
Jain Education in
For Private & Personel Use Only
R
w.jainelibrary.org