SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ करूप० ॥५१२।। Jain Education षण्मासवया एव धनगिरेरर्पितस्तेन च गुरोः करे दत्तो महाभारत्वाद् दत्तवज्रनामा पालनस्थ एवैकादशाङ्गानि अध्यैष्ट, ततस्त्रिवार्षिकः सन् मात्रा राजसमक्षं विवादेऽनेक सुखभक्षिकादिभिर्लोभ्यमानोऽपि धनगिरिणार्पितं रजोहरणमेवाऽग्रहीत्, ततोऽष्टवर्षान्ते एकदा तस्य पूर्वभववयस्यैर्जुम्भिकैरुज्जयिनीमार्गे वृष्टिनिवृत्तौ कूष्माण्ड भिक्षायां दीयमानायां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इत्यग्रहणे तुष्टैर्वैकियलब्धिर्दत्ता, तथैव द्वितीयवेलायां घृतपूराग्रहणे नभोगमनविद्या दत्ता, यश्च पाटलीपुरे धनश्रेष्ठिना दीयमानां धनकोटिसनाथां साध्वीभ्यो गुणानाकर्ण्य वज्रमेव वृणोमीति कृताभिग्रहां रुक्मिणी नामकन्यां प्रतिबोध्य दीक्षयामास, अत्र कविः - मोहाब्धिश्चुलुकी चक्रे । बालेन लीलया ।।स्त्रीनदीस्नेहपूरस्तं । वज्रर्षि प्लावयेत्कथम् ॥ १ ॥ यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य ससुभिक्षां पुनीतवान्, तत्र बौद्धेन राज्ञा जिनचैत्येषु पुष्पनिषेधः कृतः, अत्रापि किरणावलीदीपिकयोबडराज्ञेति प्रयोगो लिखितः स च चिन्त्यः, तदनु पर्युषणायां श्राद्धैर्विज्ञप्तो व्योमविद्यया माहेश्वरी पुर्या पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य स्वयं हिमवदद्रौ श्रीदेवीगृहे गतस्ततश्च श्रिया दत्तं महापद्मं हुताशनवनाद्विंशतिलक्षपुष्पाणि च लावा जृम्भकामरविकुर्वितविमानस्थः समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स For Private & Personal Use Only सुत्रो • ||५१२॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy