________________
करूप०
॥ ४९४ ॥
Jain Education Intel
वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं । शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः ॥ कालोऽयं | जलदाविलस्तदपि यः कामं जिगायादरात् । तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ ६ ॥ रे कामवामनना तत्र मुख्यमस्त्रं । वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः ॥ त्वत्सेवका हरिविरञ्चिमहेश्वराया । हा हा हताश मुनिनापि कथं हतस्त्वम् ॥ ७ ॥ श्रीनन्दिषेणरथनेमिमुनीश्वराई - बुद्धया त्वया मदन रे मुनिरेष दृष्टः ॥ ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां । तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ ८ ॥ श्रीनेमितोऽपि शकटालसुतं विचार्य । मन्यामहे वयममुं भटमेकमेव || देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं । यन्मोहनालयमयं तु वशी प्रविश्य ॥ ९ ॥ अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते साग्रहेण श्रीभद्रबाहुभिः साधुपञ्चशत्याः प्रत्यहं वाचनासप्तकेन दृष्टिवादे पाठ्यमाने सप्तभिर्वाचनाभिरन्येषु उनेिषु श्रीस्थूलभद्रो वस्तुद्वयोनां दशपूर्वी पपाठ; अथैकदा यक्षासाध्वीप्रभृतीनां वन्दनार्थ| मागतानां स्वभगिनीनां सिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनायां अयोग्यस्त्वं इति स्थूलभद्रं ऊचिवांसः, पुनः सङ्गाग्रहात् अथान्यस्मै वाचना न देयेत्युक्त्वा सूत्रतो वाचनां ददुः तथा चाहुः - केवली चरमो जम्बू-स्वाम्यथ प्रभवप्रभुः ॥ शय्यंभवो यशोभद्रः । सम्भृतिविजयस्तथा || १ || भद्रबाहुः स्थूलभद्रः । श्रुतकेवविनो हि षट् ॥
For Private & Personal Use Only
सुबो•
॥४९४ ॥
w.jainelibrary.org