SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ कल्प ० 1188311 Jain Education Int जयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैर्दुष्कर दुष्करकारक इति सङ्घसमक्षं प्रोचे, तद्वचसा पूर्वायाता: सिंहगुहासर्पबिलकू पकाटस्थायिनस्त्रयो मुनयो दूना:, तेषु सिंहगुहास्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्रा च तां दिव्यरूपां चलचित्तोऽजनि तदनु तथा नेपालदेशानायितरत्नकम्बलं खाले क्षिप्ला प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः । स एको ऽखिलसाधुषु ॥ युक्तं दुष्कर दुष्कर - कारको गुरुणा जगे ॥ १ ॥ पुप्फफलाणं च रसं । सुराण मंसाण महिलिआणं च ॥ जाणंता जे विरया । ते दुक्करकारए वंदे || २ || कोशापि तत्प्रतिबोधिता सती स्वकामिनं पुङ्खार्पितबाणैर्दूरस्थाम्रलुम्ब्यानयनगर्वितं रथकारं सर्षपराशिस्थ सूच्यग्रस्थपुष्पपरि नृत्यन्ती प्राह-न दुक्करं अंबयलुम्बितोडणं । न दुक्करं सरिसवनचिआई || तं दुक्करं तं च महाणुभावं । जं सो मुणी पमयवणांम बुच्छो ॥ ३ ॥ कवयोऽपि - गिरौ गुहायां विजने वनान्तरे । वासं यन्तो वशिनः सहस्रशः || हर्म्येऽतिरम्ये युवतीजनान्तिके । वशी स एकः शकटालनन्दनः ॥ ४ ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दुग्ध - छिन्नो न खड़ाग्रकृतप्रचारः || कृष्णाहिरन्ध्रेऽप्युषितो न दृष्टो । नाक्तोऽञ्जनागारनिवास्यहो यः ॥ ५ ॥ For Private & Personal Use Only सुबो० ||४९३ ॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy