________________
कल्प.
सुबो.
0.000000000000000000000000000000000000000
| थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते ॥
तेन नृपनन्दनस्य शतवर्षायुर्वर्त्तने, एते न व्यवहारज्ञा नृपपुत्रस्य विलोकनार्थमपि नागता इति जैननिन्दायां च क्रियमाणायां गुरुभिः सप्तभिर्दिनैर्बिडालिकातो मृतिरूचे; अत्र किरणावलीकारेण सप्तदिनैरिति समस्तः प्रयोगो लिखितः, स तु वैयाकरणैश्चिन्त्यः, सङ्ख्यया समाहारहिगुभवनात् , तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिबतो बालस्योपरि बिडालिकाकारवक्त्रार्गलापान मरणे गरूणां प्रशंसा, तस्य निन्दा च सवेत्र प्रससार, ततः कोपान्मृत्वा व्यन्तरीभूयाऽशिवोत्पादादिना सङ्घ उपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः, उक्तं च-उवसग्गहरं थत्तं । काऊणं जेण सङ्ककल्लाणं ।। करुणापरेण विहिअं। स भद्दबाहगरू जयउ ।।१।।
(थेररस णं अज्जसंभइविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( अंतेवासी थेरे अजथूलभद्दे गोयमसगुत्ते ) शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रोऽभूत् ॥ स्थूलभद्रसम्बन्धश्चैवं-पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीरथूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो वररुचिद्विजप्रयोगात् पितरि मृते नन्दराजेनाकार्य मन्त्रिमुद्रादानायाभ्यर्थितः सन् पितृमृत्युं स्वचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच्च सम्भूतिवि
000000000000000000 000000000000000000000000000000
॥४९२॥
Jain Education in
For Private & Personel Use Only
alwjainelibrary.org