SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ कम्प. 00000000000000 ॥४७७|| 000000000000000000000000000000000000000000000 यस्मिन् समये भगवान् सिद्धः तस्मिन् समये चलितासनः शक्रोऽवधिना भगवन्निर्वाणं विज्ञायाममहि-|||| सुबो. षीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानन्दोऽश्रुपूर्णनयनो नात्यासन्ने | नातिदूरे कृताञ्जलिः पर्युपास्ते, एवं ईशानेन्द्रादयः सर्वेऽपि सुरेन्द्राः कम्पितासना ज्ञातभगवनिर्वाणाः स्वस्वपरिवारपरिवृता अष्टापदपर्वते यत्र भगवच्छरीरं तत्रागत्य विधिवत् पर्युपासमानास्तिष्ठन्ति, ततः शक्रो भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवैनन्दनवनाद गोशीर्षचन्दनकाष्ठनि आनाय्य तिस्रश्चिताः कारयति, एका तीर्थङ्करशरीरस्य, एका गणधरशरीराणां, एका शेषमुनिशरीराणां, तत आभियोगिकदेवैः क्षीरोदसमुद्राज्जलं आनाययति, ततः शक्रः | क्षीरोदजलैस्तीर्थकृच्छरीरं स्नपयति, सरसगोशीर्षचन्दनेनानुलिम्पति, हंसलक्षणं पटशाटकं परिधापयति, सर्वालङ्कारविभू| षितं करोति, एवं अन्ये देवा गणधरमुनिशरीराणि स्नपितानि चन्दनानुलिप्तानि सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः शको विचित्रचित्रविराजितास्तिस्रः शिबिकाः कारयति, निरानन्दो दीनमना अश्रुमिश्रनेत्रस्तीर्थकृच्छरीरं शिबिकायां आरोपयति, अन्ये देवा गणधरमुनिशरीराणि स्थापयन्ति, ततः शक्राज्ञया अग्निकुमारा देवा निरानन्दा निरुत्साहा ||॥४७७॥ अग्निं वालयन्ति, वायुकुमारा वायुं विकुर्वन्ति, शेषाश्च देवास्तासु चितासु कालागुरुचन्दनादिसारदारूणि निक्षिपन्ति, 0000000000000000000 For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy