SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥ ४६२॥ Jain Education Inte 000000 नाभिषिक्तोऽतीव शोभितवानिति स्वप्नं दृष्टवान, सुबुद्धिनामा नगरश्रेष्ठी सूर्यमण्डलात् स्रस्तं किरणसहस्रं पुनः श्रेयांसेन तत्र योजितं, ततस्तदतीवाशोभत इति स्वप्नमैक्षत, राजापि खप्ने महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससहायाज्जयी जात इति ददर्श, त्रयोऽपि प्राप्ताः सभायां सम्भूय स्वप्नान् परस्परं न्यवेदयन, ततो राज्ञा कोऽपि श्रेयांसस्य महान् लाभो भावीति निर्णीय विसर्जितायां पर्षदि श्रेयांसोऽपि स्वभवने गत्वा गवाक्षस्थः स्वामी न किञ्चिल्लातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया क्वापीदृशं नेपथ्यं दृष्टपूर्वं इतीहापोहं कुर्वन् जातिस्मरणं प्राप, अहो अहं पूर्वभवे भगवतः सारथिर्भगवता सह दीक्षां गृहीतवान्, तदा च वज्रसेनजिनेन कथितमासीद्यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावीति, स एष भगवान्, तदानीमेव तस्यैको मनुष्यः |प्रधानेक्षुरसकुम्भसमूहप्राभृतमादाय आगतस्ततोऽसौ तत्कुम्भमादाय भगवान् गृहाणेमां योग्यां भिक्षामिति जगाद्, भगवतापि पाणी प्रसारिती, निसृष्टश्च तेन सर्वोपि रसः, न चात्र बिन्दुरप्यधः पतति, किन्तूपरि शिखा वर्द्धते, यतः - माइज्ज घडसहरसा | अहवा माइज्ज सागरा सव्वे ॥ जस्सेयारिस लडी । सो पाणिपडिग्गही होई || 9 || कवि :- स्वाम्याह दक्षिणं हस्तं । कथं भिक्षां न लासि भोः ॥ स प्राह दातृहस्तस्या -ऽधों For Private & Personal Use Only 10000008 सुबो• ||४६२॥ કટા or w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy