________________
कल्प. | || जानुप्रमाणं कुसुमोच्चयं च कृत्वा पञ्चाङ्गप्रणामपूर्वकं राज्यभागप्रदो भवेति प्रत्यहं विज्ञपयन्तौ जिनं सिषेवतुः, तौ |||| सबो.
चान्यदा वीक्ष्य वन्दनार्थमागतो धरणेन्द्रो भगवद्भक्त्या सन्तुष्टोऽवादीत् भो भगवान्निःसङ्गो, मा भगवन्तं याचेथा, || || ॥४६१॥ भगवद्भत्तयाऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंशत्सहस्रसङ्ख्याका विद्यास्तत्र गौरी-गान्धारी-रोहिणी
प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिडा एव दत्तवान् , यच्चोक्तं किरणावलीकारेण " अष्टचत्वारिंशत्सङ्ख्याका इति तदयुक्तं, आवश्यकवृत्तौ अष्टचत्वारिंशत्सहस्राणां उक्तत्वात् , अथ विद्या दत्वा उक्तवांश्च 'इमाभिर्विद्याधरढिप्राप्तौ सन्तौ खजनं जनपदं च गृहीत्वा यात युवां वैताढ्ये नगे दक्षिणविद्याधरश्रेण्यां गौरेयगन्धारप्रमुखानष्टौ निकायान् रथनपुरचक्रवालप्रमुखाणि पञ्चाशन्नगराणि, उत्तरश्रेण्यां च पण्डकवंशालयप्रमखानष्टौ निकायान गगनवल्लभप्रमखाणि च षष्टि नगराणि च निवास्य विहरतमिति,' ततस्तौ कृतकृत्यौ स्वपित्रोभरतस्य च खं व्यतिकरं निवेद्य दक्षिणश्रेण्यां नभिः उत्तरश्रेण्यां विनमिश्च तस्थतुः ॥ भगवांश्चान्नपानादिदानाऽकुशलैः समृद्धिमहिर्जनैवस्त्राभरणकन्यादिभिर्निमन्त्र्यमाणोऽपि योग्यां भिक्षां अलभमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टस्तत्र च | आवश्यकवृत्त्यनुसारेण बाहुबलिसुतसोमप्रभसुतः श्रेयांसो युवराजः, स च श्रेयांसो मया श्यामवर्णो मेरुरमृतकलशे
0000000000000000000000000000000000000000000000000000
.000000000000000000000000000000000000000000000000000
||४६१॥
Jain Education inte
For Private & Personal Use Only
jainelibrary.org