________________
करूप०
॥४६०॥
Jain Education Int
| उसमे णं अरहा कोसलिए एगं वाससहरसं निचं वोसटुकाए चियत्तदेहे ॥
( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( एगं बाससहस्सं ) एकं वर्षसहस्रं यावत् ( निच्चं वोसटुकाए चियत्तदेहे ) नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन् विचरति ॥ अथ प्रव्रज्यां प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्रामं विहरति, तदानीं लोकस्यातिसमृद्धत्वात् का भिक्षा कीदृशा वा भिक्षाचरा इति कोऽपि वार्त्ता न जानाति, ततस्ते सह प्रब्रजिताः क्षुधा दिपीडिता भगवन्तं आहारोपायं पृच्छन्ति, भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चक्रुः, तौ अपि ऊचतुर्यत् वयमपि आहारविधिं न जानीमः, पूर्व तु भगवान् न पृष्टः, इदानीं आहारं विना तु स्थातुं न शक्यते, भरतलज्जया गृहेऽपि गन्तुं अयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् इति विचार्य भगवन्तं एव ध्यायन्तो गङ्गातटे परिशटितपत्राद्युपभोगिनोऽसंस्कृत केशकूर्चा जटिलास्तापसा जज्ञिरे, इतश्र कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिविनमिनामानौ देशान्तरादागतौ, भरतेन दीयमानं राज्यभागं अवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनीपत्रैर्जलमानीय सर्वतो मिसिञ्चनं
For Private & Personal Use Only
सुबो•
118 & 11
w.jainelibrary.org