________________
कल्प.
॥४५॥
900000000000000000000000000000000000000000000000000
हुज्वलज्वालं तृणकलापं कक्लयन्तं अग्निमपलभ्याऽभिनवरत्नबड्या प्रसारितकरा दह्यमाना भयभीताः सन्तो भगवन्तं विज्ञपयामासः, भगवता चाग्नेरुत्पत्तिं विज्ञाय भो यगलिका उत्पन्नोऽग्निरत्र च शाल्याद्यौषधीनिधाय भुग्ध्वं, यतस्ताः सुखेन जीर्यन्तीत्युपाये कथितेऽप्यनभ्यासात् सम्यगुपायं अजानाना औषधीरनौ प्रक्षिप्य कल्पद्रो: फलानीव याचन्ते, अग्निना च ताः सर्वतो दह्यमाना दृष्टा अयं पापात्मा वेताल इवाऽतृप्तः स्वयमेव सर्व! भक्षयति, नारमाकं किञ्चित् प्रतियच्छतीत्यतोऽरयापराधं भगवते विज्ञप्य शिक्षा दापयिष्याम इति बुद्ध्या गच्छन्तः पथि भगवन्तं हरितस्कन्धारूढं अभिमुखमागच्छन्तं दृष्टा यथास्थितं व्यतिकरं भगवते न्यवेदयन् , भगवांश्वाह-अत्र कण्ठारादिव्यवधानेन भवद्भिर्धान्यादिप्रक्षेपः कार्यः इत्यक्त्वा तैरेव साई मृत्पिण्डं आनाय्य निधाय च हस्तिकुम्भे मिष्ठेन कुम्भकारशिल्पं प्रथममदर्शयत् , उक्तवांश्च, एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति भावदुक्तं सम्यगुपलभ्य ते तथैव कृतवन्तः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार १ चित्रकार २ तन्तुबाय ३ नापितशिल्प ४ लक्षणानि चत्वारि शिल्पानि, एतेषां च पञ्चानां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतं, तच्चाचार्योपदेशजमिति ॥२१॥
000000000000000000000000000000000000000000000000000
॥४५॥
Jain Eduetan
For Private & Personel Use Only
Mww.jainelibrary.org