SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 10000 कल्प ४१५॥ 00000000000000000000000000000000000000000000000000 जानन् पश्यंश्च विहरति, तत्र केवलज्ञानं रैवतकस्थे सहस्राम्रवने समुत्पेदे, तत उद्यानपालको विष्णोर्व्यजिज्ञपत्, विष्णुरपि महर्या भगवन्तं वन्दितुमाययो, राजीमत्यपि तत्रागता, अथ प्रभोर्देशनां निशम्य वरदत्तनृपः सहस्रह- | यनृपयुतो व्रतमाददे, हरिणा च राजीमत्याः स्नेहकारणे पृष्टे प्रभुर्धनवतीभवादारभ्य तया सह खस्य नवभवसम्बन्धमाचष्टे, तथाहि-प्रथमे भवेऽहं धननामा राजपुत्रस्तदेयं धनवती नाम्नी मत्पत्नी अभूत् १ ततो द्वितीये भवे | प्रथमे देवलोके आवां देवदेव्यौ २ ततस्तृतीये भवेऽहं चित्रगतिनामा विद्याधरस्तदेयं रत्नवती मत्पत्नी ३ | | ततश्चतुर्थे भवे चतुर्थे कल्पे हावपि देवौ ४ पञ्चमे भवेऽहं अपराजितराजा, एषा प्रियतमा राज्ञी ५ षष्ठे एकादशे कल्पे हावपि देवौ ६ सप्तमेऽहं शङ्को नाम राजा, एषा तु यशोमती राज्ञी ७ अष्टमे अपराजिते द्वावपि देवौ ८ नवमेऽहं एषा राजीमती ९ ततः प्रभुरन्यत्र विहृत्य क्रमात्पुनरपि रैवतके समवासरत् , अनेकराजकन्यापरिवृता राजीमती तदा रथनेमिश्च प्रभुपार्श्वे दीक्षां जगृहतुः, अन्यदा च राजीमती प्रभुं नन्तुं प्रतिव्रजन् मार्गे वृष्टया बाधिता, एकां च गुहां प्राविशत् , तस्यां च गुहायां पूर्व प्रविष्टं रथनेमि अजानती सा क्लिन्नानि वस्त्राणि शोषयितं परितश्विक्षेप, ततश्च तां अपहस्तितत्रिदशतरुणीरामणीयकां साक्षात् कामरमणीमिव रमणीयां तथा 0500000000000000000000000000000 |॥४१५॥ in Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy