________________
कल्प.
सचा
॥४१६॥
00000000000000000000000000000000000000000
| ॥ अरहओ णं अरिट्ठनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हत्था ॥ १७५॥ | विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्मणि हतः कुललज्जामुत्सृज्य धीरतामवधीर्य रथनेमिस्तां जगाद-अयि सुन्दरि किं देहः- शोष्यते तपसा त्वया ॥ सर्वाङ्गम्भोगसंयोग-योग्यः सौभाग्यसेवधिः ॥ १॥ आगच्छ
खेच्छया भद्रे । कुर्वहे सफलं जनुः ॥ आवामुभावपि प्रान्ते । चरिष्यावस्तपोविधिम् ।। २ ।। ततश्च महासती तदाकर्ण्य तं दृष्टा च धृताद्भुतधैर्या तं प्रत्युवाच-महानुभाव कोऽयं ते-ऽभिलाषो नरकाध्वनि ॥ सर्व सावद्यमुत्सृज्य । पुनर्वाञ्छन्न लज्जसे ॥ १ ॥ आन्धनकुले जाता-स्तिर्यञ्चो ये भुजङ्गमाः ॥ तेऽपि नो वान्तमिच्छन्ति । त्वं नीचः किं ततोऽप्यसि ॥ २ ॥ इत्यादिवाक्यैः प्रतिबोधितः श्रीनेमिपार्श्वे तददश्वीर्णमालोच्य तपस्तप्त्वा मुक्तिं जगाम, राजीमत्यपि दीक्षामाराध्य शिवशय्यामारूढा, चिरप्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमवाप, यदाहछद्मस्था वत्सरं स्थित्वा । गेहे वर्षचुतुःशतीम् । पञ्चवर्षशतीं राजी ययौ केवलिनी शिवम् ॥१॥ १७ ॥
(अरहओ णं अरिट्टनेमिस्स) अर्हतः अरिष्टनेमेः (अट्ठारस गणा अट्ठारस गणहरा हुत्था) अष्टादश गणाः, अष्टादशगणधराश्च अभवन् ।। १७५ ॥
100000000000000000000000000000000000000000000000000
||४१६॥
in Education Intern a
For Private & Personel Use Only
www.jainelibrary.org