________________
SARA
कल्प.
॥४०७||
Rohoro00000000000.
| साडम्बरमागच्छन्नपि वरो विलोक्यते, अहमपि विलोकयितुं न लभेयं इति बलात्तदन्तरे स्थित्वा नेमि आलोक्य ||| सुबो. साश्चर्य चिन्तयति-किं पातालकुमारः । किंवा मकरध्वजः सुरेन्द्रः किम् ॥ किं वा मम पुष्यानां । प्राम्भारो मूर्तिमानेषः ॥ १ ॥ तस्य विधातुः करयो-रात्मानं न्युञ्छनं करोमि मुदा ॥ येनैष वरो विहितः । सौभाग्यप्रभृतिगुणराशिः ॥२॥ मृगलोचना राजीमत्यभिप्रायं परिज्ञाय सप्रीतिहासं-हे सखि ! चन्द्रानने ! समग्रगुणसम्पर्णेऽपि अस्मिन् वरे एक दूषणं अस्त्येव, परं वरार्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते, चन्द्राननापि-हे सखि ! मृगलोचने ! मयापि तद् ज्ञातं परं साम्प्रतं मैनमेवाचरणीयं, राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्तीहे सख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसुन्दरेऽस्मिन् वरे दूषणं तु दुग्धमध्यात् पूतरकर्षणप्रायं असम्भाव्यमेव ।। तदनु ताभ्यां सविनोदं कथितं, भो राजीमति!वरः प्रथमः गौरो विलोक्यते, अपरे गुणारतु परिचये सति ज्ञायन्ते, तद्गौरत्वं तु कज्जलानुकारमेय दृश्यते, राजीमती सेय॒ सख्यौ प्रत्याह-अद्य यावत् युवां चतुरे इति मम भ्रमोऽभवत् , साम्प्रतं तु स भग्नः, यत् सकलगुणकारणं श्यामत्वं भूपणमपि दूपणतया प्ररूपित, श्रृणुतं तावत् सावधानीभूय भवत्यो, झ्यामत्वे श्यामवस्त्वाश्रयणे च, गुणान,
000000000000000000000000000000000000000
॥४०७॥
I
l
Jain Education Intel
For Private & Personal Use Only
minelibrary.org